Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
नन्दिसूत्रम्
॥१८१॥
Jain Education
द्वादश विकल्पा जीवपदे लब्धाः, एवं अजीवादिषु अपि षट्सु पदार्थेषु प्रत्येकं द्वादश द्वादश विकल्पा लभ्यते । ततो द्वादशभिः सप्तगुणिताः चतुरशीतिर्भवंति अक्रियावादिनां विकल्पाः ॥ तथा कुत्सितं ज्ञानं अज्ञानं तदेषां अस्ति इति अज्ञानिकाः, 'अतोऽनेकखरात् ' इति मत्वर्थीय इकप्रत्ययः, अथवा अज्ञानेन चरंति इति अज्ञानिकाः - असंचिंत्य कृतबंधवैफल्यादिप्रतिपत्तिलक्षणाः, तथा हि-एते एवमाहुः - न ज्ञानं श्रेयः, तस्मिन् सति परस्परं विवादयोगतः चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्तेः । तथाहि - केनचित् पुरुषेण अन्यथा देशिते सति वस्तुनि विवक्षितो ज्ञानी ज्ञानगर्वाध्मातमानसः तस्य उपरि कलुषचित्तस्तेन सह विवादं आरभते, विवादे च क्रियमाणे तीव्रतीव्रतरचित्तकालुष्यभावतोऽहंकारतश्च प्रभूत्तप्रभूततराः अशुभकर्म्मबंधसंभवः, तस्मात् च दीर्घदीर्घतरसंसारः, तथा च उक्तं - " अनेण अन्नहा देसियंमि भावंमि नाणगव्वेणकुणइ विवायं कलुसियचित्तो तत्तो य से बंधो ॥ १ ॥" इत्यादि, येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणाः तेऽपि मोहात् मुक्तिपथपरिभ्रष्टाः वेदितव्याः । तथा हि-विनयो नाम मुक्तिअंगं यो मुक्तिपथानुकूलो न शेषः, मुक्तिपथश्च ज्ञानदर्शनचारित्राणि, 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति वचनात्, ततो ज्ञानादीनां ज्ञानादिआधारणां च बहुश्रुतादिपुरुषाणां यो विनयो ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसंपत् वृद्धिहेतुत्वेन परंपरया मुक्तिअंग उपजायते । यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुर्यतः सुरनृपत्यादिषु विनयो विधीयमानः सुरनृपत्यादिभाव विषयं बहुमानं आपादयति । अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोग प्रधानः, ततस्तत् बहुमाने भोगबहुमानं एव कृतं परमार्थतो भवति इति दीर्घसंसारपथप्रवृत्तिः, येऽपि च यतिविनयवादिनः तेऽपि यदि साक्षात् विनयमेव केवलं मुक्तिअंगं इच्छंति तर्हि तेऽपि असमीचीनवादिनो वेदितव्याः । ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षात् मुक्तिअंगत्वाभावात्, न खलु ज्ञानदर्शनचारित्ररहिताः
onal
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१८१॥
jainelibrary.org

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294