Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 219
________________ नन्दिसूत्रम् ॥१७॥ अवचूरिसमलंकृतम् अथ किं तदंगप्रविष्टं ? सूरिराह-अंगप्रविष्टं द्वादशविधं प्रज्ञप्तं, तद्यथा-'आचारः सूत्रकृत'मित्यादि, अथ किं तदाचार इति? अथवा कोऽयं आचारः? आचार्य आह-श्राचरणं आचारः आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञामादि आसेवन विधिः इत्यर्थः। तत्प्रतिपादको ग्रंथोऽपि आचार एवं उच्यते । अनेन वाऽचारेण करणभूतेन अथवा आचारे-आधारभूते 'ण' इति वाक्यालंकारे श्रमणानां प्राग्निरूपितशब्दानां निग्रंथानां बाह्याभ्यंतरग्रंथरहितानां, आह-श्रमणा निग्रंथा एव भवंति तत् किमर्थं निग्रंथानां इति विशेषण उच्यते, शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यते । तदुक्तं-'निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा' इति । तेषां आचारादि आख्यायते, तत्र आचारो ज्ञानाचारादि अनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः, वैनयिक-विनयफलं कर्मक्षयादिशिक्षा-ग्रहणशिक्षा आसेवनशिक्षा वा, विनेय शिक्षा इति चूर्णिकृत् । तत्र विनेयाः-शिष्याः। तथा भाषा सत्या असत्या-मृषा च, अभाषा-मृषा सत्यामृषा च । चरण-व्रतादि, करणं-पिंडविशुद्ध्यादि, उक्तं च-"वयसमणधम्मसंजमवेयावचं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गाई चरणमेयं ॥१॥ पिंडविसोहीसमिईभावणपडिमाय इंदियनिरोहो। पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥२॥" यात्रा-संयमयात्रा तदर्थ एव परिमिताहारग्रहणं वृत्तिःविविधैः अभिग्रहविशेषैः वर्चनं, 'आचारश्च गोचरश्च' इत्यादिः द्वन्द्वः, ता आचारगोचरविनयवैनयिकशिष्याभाषाऽभाषाचरणकरण- 1 यात्रामात्रावृत्तयः आख्यायंते । इदं यत्र क्वचित् अन्यतरोपादानेन अन्यतरगतार्थाभिधानं तत् सर्व तत् प्राधान्यख्यापनार्थ अवसेयं । स आचारः 'समासतः' संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा-'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचारः, "काले विणए बहुमाणे, उवहाणे तह य निडवणे । वंजणअत्थतदुभए अढविहो नाणमायारो ॥१॥" दर्शनाचारः, "निस्संकिय निकंखिय निन्वितिगिन्छामूढदिट्ठीय । | ॥१७॥ क Jan Education For Private Personel Use Only A jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294