________________
नन्दिसूत्रम् ॥१७॥
अवचूरिसमलंकृतम्
अथ किं तदंगप्रविष्टं ? सूरिराह-अंगप्रविष्टं द्वादशविधं प्रज्ञप्तं, तद्यथा-'आचारः सूत्रकृत'मित्यादि, अथ किं तदाचार इति? अथवा कोऽयं आचारः? आचार्य आह-श्राचरणं आचारः आचर्यते इति वा आचारः, पूर्वपुरुषाचरितो ज्ञामादि आसेवन विधिः इत्यर्थः। तत्प्रतिपादको ग्रंथोऽपि आचार एवं उच्यते । अनेन वाऽचारेण करणभूतेन अथवा आचारे-आधारभूते 'ण' इति वाक्यालंकारे श्रमणानां प्राग्निरूपितशब्दानां निग्रंथानां बाह्याभ्यंतरग्रंथरहितानां, आह-श्रमणा निग्रंथा एव भवंति तत् किमर्थं निग्रंथानां इति विशेषण उच्यते, शाक्यादिव्यवच्छेदार्थ, शाक्यादयोऽपि हि लोके श्रमणा व्यपदिश्यते । तदुक्तं-'निग्गंथ सक्क तावस गेरुय आजीव पंचहा समणा' इति । तेषां आचारादि आख्यायते, तत्र आचारो ज्ञानाचारादि अनेकभेदभिन्नो गोचरो-भिक्षाग्रहणविधिलक्षणः विनयो-ज्ञानादिविनयः, वैनयिक-विनयफलं कर्मक्षयादिशिक्षा-ग्रहणशिक्षा आसेवनशिक्षा वा, विनेय शिक्षा इति चूर्णिकृत् । तत्र विनेयाः-शिष्याः। तथा भाषा सत्या असत्या-मृषा च, अभाषा-मृषा सत्यामृषा च । चरण-व्रतादि, करणं-पिंडविशुद्ध्यादि, उक्तं च-"वयसमणधम्मसंजमवेयावचं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गाई चरणमेयं ॥१॥ पिंडविसोहीसमिईभावणपडिमाय इंदियनिरोहो। पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु ॥२॥" यात्रा-संयमयात्रा तदर्थ एव परिमिताहारग्रहणं वृत्तिःविविधैः अभिग्रहविशेषैः वर्चनं, 'आचारश्च गोचरश्च' इत्यादिः द्वन्द्वः, ता आचारगोचरविनयवैनयिकशिष्याभाषाऽभाषाचरणकरण- 1 यात्रामात्रावृत्तयः आख्यायंते । इदं यत्र क्वचित् अन्यतरोपादानेन अन्यतरगतार्थाभिधानं तत् सर्व तत् प्राधान्यख्यापनार्थ अवसेयं । स आचारः 'समासतः' संक्षेपतः पंचविधः प्रज्ञप्तः, तद्यथा-'ज्ञानाचार' इत्यादि, तत्र ज्ञानाचारः, "काले विणए बहुमाणे, उवहाणे तह य निडवणे । वंजणअत्थतदुभए अढविहो नाणमायारो ॥१॥" दर्शनाचारः, "निस्संकिय निकंखिय निन्वितिगिन्छामूढदिट्ठीय ।
| ॥१७॥
क
Jan Education
For Private Personel Use Only
A
jainelibrary.org