Book Title: Nandisutram
Author(s): Devvachak, Malaygiri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 217
________________ नन्दिसूत्रम् ॥ १७१ ॥ Jain Education भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचन कौशलेन धर्म्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि सर्व प्रकीर्णकं, भगवत ऋषभस्वामिन उत्कृष्टा श्रमणसम्पदा आसीत् चतुरशीतिसहस्रप्रमाणा, ततो घट प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहस्रसङ्ख्यानि, एवं मध्यमतीर्थकृतां अपि सङ्ख्येयानि प्रकीर्णकसहस्राणि भावनीयानि, भगवतस्तु वर्द्धमानखामिनः चतुर्द्दशभ्रमणसहस्राणि ततः प्रकीर्णकानि अपि भगवतः चतुर्दशसहस्राणि, अत्र द्वे मते- एके सूरयः प्रज्ञापयंति - इदं किल चतुरशीतिसहस्रादिकं ऋषभादीनां तीर्थकृतां श्रमणपरिमाणं प्रधानस्त्रविरचनसमर्थान् श्रमणान् अधिकृत्य वेदितव्यं । इतरथा पुनः सामान्यश्रमणाः प्रभूततरा अपि तस्मिन् तस्मिन्नृषभादिकाले आसीरन् । अपरे पुनः एवं प्रज्ञापयंति - ऋषभादितीर्थकृतां जीवतां इदं चतुरशीतिसहस्रादिकं श्रमणपरिमाणं । प्रवाहतः पुनः एकैकस्मिन् तीर्थे भूयांसः श्रमणा वेदितव्याः । तत्र ये प्रधानस्त्रविरचनशक्तिसमन्वितसुप्रसिद्धतत् ग्रंथा अतत्कालिका अपि तीर्थे वर्त्तमानास्तेऽधिकृता द्रष्टव्याः । एतदेव मतांतरं उपदर्शयन्नाह - ' अथवा ' प्रकारांतरोपदर्शने यस्य ऋषभादेः तीर्थकृतो यावंतः शिष्याः तीर्थे औत्पत्तिक्या वैनयिक्या कर्म्मजया पारिणामिक्या चतुर्विधया बुद्ध्या उपेताः - समन्विता आसीरन्, तस्य - ऋषभादेः तावंति प्रकीर्णकसहस्राणि अभवन्, प्रत्येकबुद्धा अपि तावंत एव, अत्र एके व्याचक्षतेइह एकैकस्य तीर्थकृतः तीर्थे अपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणां अपरिमाणत्वात्, केवलं इह प्रत्येकबुद्धरचितानि एव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धपरिमाणप्रतिपादनात् स्यादेतत् - प्रत्येकबुद्धानां शिष्यभावो विरुध्यते, तदेतदसमीचीनं यतः प्रव्राजकाचार्य एव अधिकृत्य शिष्यभावो निषिध्यते । ननु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि ततो न कश्चित् For Private & Personal Use Only अवचूरिसमलंकृतम् ॥ १७१ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294