________________
नन्दिनम्
।।१५६ ।।
Jain Education
त्रिलोका एव त्रैलोक्यं भेषजादित्वात् स्वार्थे ध्यण् प्रत्ययः, निरीक्षिताश्च ते महिताश्च ते पूजिताश्च ते निरीक्षितमहितपूजिताः । त्रैलोक्येन निरीक्षितमहितपूजिताः त्रैलोक्य निरीक्षितमहितपूजिताः । तत्र निरीक्षिताः- मनोरथपरंपरासंपत्तिसंभवविनिश्चयसमुत्थसम्मद| विकाशिलोचनैः आलोकिताः महिता - यथावस्थिताऽनन्यसाधारणगुणोत्कीर्तन लक्षणेन भावस्तवेन अर्चिताः पूजिताः - सुगन्धिपुष्पप्रचुरप्रक्षेपादिना द्रव्यस्तवेन, 'अतीतप्रत्युत्पन्न अनागतज्ञैः' 'सर्वज्ञैः सर्वदर्शिभिः' प्रणीतं अर्थकथनद्वारेण प्ररूपितं, किं इत्याह- 'द्वादशांगी' श्रुतरूपस्य परम पुरुषस्य अंगानि इव अंगानि द्वादशांगानि - आचारादीनि यस्मिन् तत् द्वादशांगं गणो-गच्छो गुणगणो वा अस्यास्ति इति |गणी - आचार्यः तस्य पिटकं इव पिटकं, सर्वस्वं इत्यर्थः, गणिपिटकं, तद्यथा - ' आयारो' इत्यादि पाठसिद्धं यावत् दृष्टिवादः । अनंगप्रविष्टं अपि आवश्यकादितवतोऽत्प्रणीतत्वात् परमार्थतो द्वादशांगातिरिक्तार्थाभावात् च द्वादशांगग्रहणेन गृहीतं द्रष्टव्यम् । इदं च द्वादशांगादि सर्व एव द्रव्यास्तिकनयमतापेक्षया तत् अभिधेय पंचास्तिकाय भाववत् नित्यं, स्वाम्यसंबंधचिंतायां च स्वरूपेण चिंत्यमानं सम्यक् श्रुतं, स्वामिसंबंधचिंतायां तु सम्यग् दृष्टेः सम्यक् श्रुतं मिथ्यादृष्टेः मिध्याश्रुतम् । एतदेव श्रुतं परिणामतो व्यक्तं दर्शयति-इत्येतत् द्वादशांगं गणिपिटकं यश्चतुर्द्दशपूर्वी तस्य सकलं अपि सामायिकादि बिंदुसारपर्यवसानं नियमात् सम्यक् श्रुतं, ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक् श्रुतं तावत् वक्तव्यं यावत् अभिन्नदशपूर्विणः - संपूर्णदशपूर्वधरस्य, संपूर्णदशपूर्वरत्वादिकं हि नियमतः सम्यग् दृष्टेः एव न मिथ्यादृष्टेः, तथास्वाभाव्यात्, तथा हि-यथा अभव्यो ग्रंथिदेशं उपागतोऽपि तथा स्वभावत्वात् न ग्रंथेर्भेदमाधातुमलमेवं मिथ्यादृष्टिः अपि श्रुतं अवगाहमानः प्रकर्षतोऽपि तावत् अवगाहते यावत् किंचित् न्यूनानि दश पूर्वाणि भवंति । परिपूर्णानि तु तानि न अवगाढुं शक्रोति, तथास्वभावत्वात् इति, 'तेण परं भन्नइ भयणा' अत्र 'तेण' इति 'व्यत्ययो ऽप्यासा' इति
For Private & Personal Use Only
अवचूरिसमलंकृतम्
॥१५६॥
jainelibrary.org