Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ दरिद्रता मूर्तिमती क्वचित् क्वचित् धनाढ्यता श्रीदकृपाकटाक्षिता । वपुः क्वचित् सुन्दरमिन्द्रवन्दितं क्वचिज्जराजर्जरितं मदार्दितम् ॥१३॥ धनं नवं यौवनमाश्रितं श्रिता विलासिनी लास्यमुपास्यति क्वचित् । क्वचिद् विवाहेन समं गतासुकं धवं गलेकृत्य विरौति दुर्भगा ॥१४॥ विचार्यमाणं भुवनं समन्ततो विरूपमेवं बहुधा विलोक्यते । तदीदृशं विश्वमवारितार्तिकं विरच्य वैशिष्ट्यमिनः किमाश्रयेत् ॥१५॥ अतयंता चेत् प्रतिपाद्यते प्रभोः तदा कुतः स कदर्थ्यते कथम् । कपीलमात्रोक्तमनक्षरालये भवेत् प्रमाणं न च सुज्ञसंसदि ॥१६॥ ललेन लीलां किल यन्मलाविला मथो कृपां चेत् कलयेदिलाविधौ । भवत्कृपा यद्विधवाऽभवत् सुता कथामितीशोऽनुहरेत् तदा वृथा ॥१७।। यथा सुधीर्नीत्यनुसारतो जनान् प्रशास्ति राज्ये जगदीश्वरस्तथा । न रम्यमेतन्ननु कर्मवश्यता जने तदेशस्य भवेच्छिखण्डिता ॥१८॥ विधातृता ज्ञातृतया सहैकतां .....--विज्ञाय सर्वज्ञविलोकितं जगत् । न चांऽशमानं व्यतिरिच्यते क्षणं न दोषलेशः प्रभवेत् तथा मते ॥१९॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96