Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुखम्
-स्व.आ. श्रीविजयधर्मधुरन्धरसूरयः
अहूं ध्यात्वा प्रणम्याऽहूँ अहूँ स्मृत्वा पुनः पुनः । अर्हन्तं प्रार्थये काम अर्हन्नेवाऽर्हतेऽर्हते ॥१॥ प्रार्थना कस्य कर्तव्या कर्तव्या केन प्रार्थना । प्रार्थनायां निवेद्यं किं तदर्थमपि प्रार्थये ॥२॥ शर्मणः प्रार्थना कार्या शर्मार्थिना हि प्रार्थ्यते । प्रार्थनायां निवेद्यं तत् प्रार्थना येन संभवेत् ॥३॥ शर्म किं तदपि ज्ञेयं द्विविधं तद् विभाव्यताम् । बाह्यं तथाऽऽन्तरं शुद्धं बाह्यं पौद्गलिकं मुधा ॥४॥ सुखं बाह्यं परायत्तं दुःखमिश्रं य भङ्गुरम् । काल्पनिकं तथा तन्न वास्तवमिति गीयते ॥५॥ अनादिकालसंस्कारात् तत्रैव रज्यते जनैः । तदेव चिन्त्यते बाद तदर्थमेव यत्यते ॥६॥ आन्तरं शर्म वक्तव्यमग्रतस्तदपेक्षया । बाह्यमिदं भवेद् बाह्यं वोढव्यं भारवन्मुधा ॥७॥ नाऽवाप्यते तदा यस्मिन् काले हि यदपेक्ष्यते । नाऽपेक्ष्यते तदायाति परायत्तं ततश्च तत् ॥८॥ बिन्दुमात्रसुखार्थं यद् दुःखं समनुभूयते । अमितं तत् ततो ज्ञेयं दुःखमिश्रमिदं सदा ॥९॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96