Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
बात ही कहे से ज्ञान ध्यान में प्रवीण बने, बात ही कहे से सब लोक में पूजात है, बात ही वखान तीन लोक में सुजान होत, बडे बडे योगी यति बात ही कहात है। बात कहे से विष वासक को उतर जात, जाने विन बात मूढ केते दुःख पात है, मंत्र अरु तंत्र सब बात ही के पाठ वने, बात कर ही जाने तो बात हु करामात है ॥
येऽवसरोचितकथनं सम्यक्तया जानन्ति, तेषां प्रतिवाक्येषु चाऽमूल्योपदेशाः सन्तिष्ठन्ते । तथाऽतिकृपणान्याय्यानाचारोद्यतान् स्त्रीपुरुषान् सुमार्गे चालयितुं शक्तिशालिनो भवन्तीति । तथा हि -
अथाऽऽसीत् कश्चनाऽतीवलोभवान् भूपः, स च प्रभूतं वित्तं सञ्चिक्ये, परं स तद्धनं स्वपुत्रस्याऽपि सुखभोगाय न ददाति, न च द्रव्यव्ययभयान्निजकन्यामेव विवाहयति । ततः कदाचिदेको नटो नटी च तत्सभायां समाजगाम । स चाऽऽगत्यैव निजनाट्यदर्शनाय नृपं प्रार्थयामास । अथ राजाऽपि साधु, कदाचिद् द्रक्ष्यामीति तं विससर्ज, किन्तु सा नटी मुहुर्मुहुरागत्य राजानं विज्ञपयति । भूपोऽपि तामुपेक्षते, परमन्ते नटी कदाचित् मन्त्रिणं विज्ञपयामास - 'यदि महाराजो मदीयं नाट्यं न पश्येत्तदहं व्रजानि, यतः स्वद्रव्यं खादन्त्या मे भूयांसि दिनानि व्यतीयुः'। इत्येवं श्रुत्वा मन्त्री राजानं प्रार्थयते स्म स्वामिन् ! भवान्नाट्यमवश्यं विलोकताम् । वयं च सर्वेभ्यः किञ्चित्किञ्चिद् दापयित्वा तां नटी नटं च यथावत्सन्तोषयिष्यामहे । यदि च भवान्नाट्यं न द्रक्ष्यति तर्हि लोके महती भवतोऽपकीर्तिः स्यात् । ततो राज्ञाऽपि मन्त्रिवचः स्वीकृतम् । नाट्यमपि प्रारेभे । यदा तस्या नाट्यं कुर्वत्या घटिकाद्वयावशिष्टायां रजन्यामपि किञ्चिदपि भूपतिः पारितोषिकं न ददाति, तावन्नटी नटमाह -
"घटिकैकावशिष्टायां, रात्रौ श्रान्ता च मत्तनुः ।
नटी नटमथोवाच, तालं धैर्येण वादय ॥" नटीवाक्यमाकर्ण्य नट आह -
"वीतेयं बहुधा रात्री, किञ्चिन्मात्राऽवशिष्यते ।
नटस्तदा नटी प्रोचे, ताले भङ्गं हि नो कुरु ॥" अथ तत्रैव कोऽपि तपस्वी नाट्यं विलोकयन्नासीत्, स च नटनट्योः प्रश्नेत्तरमाकण्यैव निजकम्बलं ताभ्यां समर्पयामास । स राजकुमारो हीरकादिजटितां निजकटकद्वयीं, सा राजकुमारिकाऽपि च निजकण्ठस्थहीरकमयं सुन्दरममूल्यं सुहारं प्रददौ । राजा चैवं सर्वमवलोक्य साश्चर्यो भूत्वा सर्वतः प्राक् तपस्विनमेव प्रोचिवान् - यद् भवत्पार्श्वे त्वेक एव कम्बल आसीत्, तद् भवान् किं ज्ञात्वा ताभ्यां तं प्रदत्तवान् ? ततस्तपस्वी व्याजहार - 'भवदैश्वर्यं वीक्ष्यैव मम चेतसि भोगवासना प्रादुर्भूता, किन्तु नटनट्योरुपदेशान्मम चेतो वैपरीत्यं लेभे । मया हि ताभ्यामयमेवोपदेशोऽग्राहि यत्प्रायोऽधिकं वयस्तपसा क्षीणमेव, किञ्चेदानीं स्वल्पमेवावशिष्टम् । तदपि भोगवासनाभिः किं विनाशयानि ? अमुमेवोपदेशं गृहीत्वाऽऽभ्यां सर्वस्वभूतं निजैकमात्रं कम्बलमेवाऽऽर्पयम् ।
ततो नृपतिः कुमारमप्राक्षीत् – त्वया हि किं ज्ञात्वाऽऽभ्यां हीरककटकद्वयं ददे ? स चोवाच – 'यदहं प्रत्यहं दुःखीभूतः, यतो भवान् मह्यं न किमपि व्ययार्थं दत्तेऽत एवाऽतीवदुःखीभूत्वाऽहं व्यचिन्तयम् -
३५

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96