Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ मर्म नर्म -मुनिश्रुताङ्गचन्द्रविजयः सेवकः नाथः सेवकः नाथ ! मां भवद्भवने सेवकत्वेन स्थापयतु । अहं तु तादृशं सेवकमिच्छामि यः सर्वदा सेवां कुर्यात् । यदि त्वं कतिचिदिनानन्तरमन्यत्र गमिष्यसि तदा किम् ? नाथ ! अहं यत्र गच्छामि तत्र चिरकालपर्यन्तं तिष्ठामि । अन्तिमस्थानेऽहं पञ्च वर्षाणि स्थितवान् । त्वमन्ते कुत्राऽऽसीः ? कारागृहे !!! नाथः सेवकः शिक्षकः रमणः शिक्षकः रमणः रमण ! त्वया गृहकार्यं कृतं वा? । नैव । किमर्थम् ? यतोऽस्माकं सर्वमेव गृहकार्य सेविकैव करोति !!! पिताः पुत्रः पुत्र ! एवमातपे निष्कार्य किं तिष्ठसि ? प्रस्वेदं शोषयितुं किल ! (अपराधं कारं कारमनेकशो दण्डप्राप्तकं जनमद्य पुनः दृष्ट्वा) न्यायाधीशः प्रतिपञ्चदशदिनमत्राऽऽगमनं किं ते रोचते किल ? किं तव प्रतिष्ठा वर्धते ? कीदृशी लज्जाजनकवार्ता ? अपराधी भवान् अपि प्रतिदिनमत्राऽऽगच्छत्येव ! कीदृशं लज्जाजनकम् !!

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96