Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
एकदा सायंकाले गुरुः शिष्यैः सहाऽश्रमे उपविष्ट आसीत्, सर्वेषां मन आनन्दितमासीत् । वायुः शीतल आसीत् । विहगा निजक्रीडायां लीना आसन् । वृक्षाणां शाखा नृत्यं कुर्वन्ति स्म । सूर्यो निजतापं समहरत्, चन्द्रश्च निजशीतलतां प्रासारयत् । अस्मिन् रम्ये वातावरणे शिष्या निर्विकल्पेन मनसा केवलं गुरोरुपदेशमेव शृण्वन्ति स्म ।
अथ गुरुः स्वस्य हस्ते दुग्धेनं भृतं चषकमधारयत् । अनन्तरं गुरुणा पृष्टमस्मिन् चषके कियद् दुग्धमस्ति ?
शिष्याः
तस्य मानं कथयितुमशक्यमस्ति ।
गुरुः
अथ यूयं कथयत यद् यदि दुग्धेन भृतश्चषको युष्माकं हस्तेन ध्रियते, तदा काऽपि वेदना भवेन्न वा ?
-
-
गुरुः शिष्याः
गुरुः
-
शिष्याः
गुरुवर्याः ! कमपि भारं न अनुभवेम ।
गुरुः एकघण्टापर्यन्तं यदि चषको हस्तेन धार्येत, तदा किं काऽपि वेदना भवेत् ? शिष्याः हस्तः क्लाम्येत् ।
ततो गुरुणा पृष्टम् - यदि पञ्चघण्टापर्यन्तं हस्तेन ध्रियते तदा कीदृशी वेदना भवेत् ?
शिष्याः
-
प्रसन्नताया रहस्यम्
-
हस्तः अङ्गुल्यश्च कम्पेरन् ।
हस्तमुच्चैः कृत्वा चषको यदि ध्रियेत, तदा कीदृशी वेदना भवेत् ?
सम्पूर्णो हस्त: क्लाम्येत् ।
यदि चतुर्विंशतिघण्टापर्यन्तं वयं तया रीत्या चषकं धारयेम, तदा कीदृशी वेदना
भवेत् ?
शिष्याः ईदृश्या रीत्या तु चषको हस्तात् पतेत् ।
६२
सा. तत्त्वनन्दिताश्रीः
-
-
-

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96