Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ईदृक् शिष्याणामुत्तरं श्रुत्वा, गुरुः शिष्येभ्यो बोधं दत्तवान् – हे वत्साः ! या वार्ता अस्माकं मनो दुष्टं करोति सा शीघ्रतया विस्मरणीया, यतस्तस्या वार्तायाः पुनः पुनः स्मरणमस्मभ्यं बह्रीं वेदनां ददाति, अन्यजना अपि बहुशो वेदनां प्राप्नुवन्ति । यदि वयं प्रसन्नतया स्थातुमिच्छामस्तदा दुष्टा वार्ता चिरकालं मनसि न धारणीया । गुरोरीदृशं गभीरं बोधं श्रुत्वा सर्वे शिष्या अमोदन्त । गुरोर्वन्दनं च कृत्वा स्वस्थानं गताः ।

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96