Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ संवादः भीष्म-द्रौपदी संवादः -मुनिश्रुताङ्गचन्द्रविजयः भीष्मपितामहो बाणशय्याया उपरि शयान आसीत् । तदा स युधिष्ठिरमुपदिशन्नासीत् । तावत् पितामहं द्रौपद्येकप्रश्नप्रच्छनायाऽनुज्ञां याचितवती । पितामहेनाऽनुज्ञायां दत्तायां सा कथितवती - "महाराज ! प्रश्नप्रच्छनात् पूर्वमेव क्षमा याचे यन्मम प्रश्नो भवते न रोचेत" । भीष्मः कथितवान् – “अहं न कुप्यामि । तव मनसि यद् वर्तते तत् पृच्छ" । ____ द्रोपदी ब्रवीति स्म – “यदा दुर्योधनस्य राजसभायां दुःशासनेन मम चीरहरणं कृतं तदा भवान् अपि तत्रैव स्थितवान् । दयनीयतया मया भवत्पाघे साहाय्यं याचितं किन्तु भवता किमपि न कृतम् । अद्य भवान् धर्मोपदेशं ददानोऽस्ति किन्तु यदैकस्या अबलायाः प्रकाशमपमानं जायमानमासीत् तदा भवदीयो धर्मः कुत्राऽऽसीत् ?" ___ भीष्मो वदतिस्म - "पुत्रि ! सत्यकथनं ते, किन्तु तदाऽहं दुर्योधनगृहस्य भ्रष्टमाहारं गृह्णन्नासम् । तादृशानेन मदीया बुद्धिर्धष्टतामधिगता । अतोऽहं यौष्माकीणपक्षं जिघृक्षमाणोऽपि धर्ममाचरितुं न शक्तः । अद्याऽर्जुनशरैर्मम देहगतं भ्रष्टरुधिरमूढमस्ति । बहुकालपर्यन्तं बाणशय्यायां शयानोऽस्मि । देहात् भ्रष्टरक्तस्य निर्गमनादधुनाऽहं धर्मोपदेशदाने शक्तोऽभवम्" । आस्माकीनाहारस्याऽस्माकं वा वर्तने चि व्यवहारे च महाप्रभावो वर्तते । अत एव कथ्यते - . "यादृश आहारस्तादृश आचारः" ॥

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96