Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
संवादः
गुरु:
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरुः
शिष्याः
गुरुः
गुरु-शिष्यसंवाद:
- मुनिश्रुताङ्गचन्द्रविजयः
अस्मिञ्जगत्यतितीक्ष्णं वस्तु किम् ?
असिरतितीक्ष्णा ।
मानवस्य जिह्वाऽतितीक्ष्णाऽस्ति । यया मनुष्योऽन्येषां जनानां हृदयं छेत्तुं शक्तः । अस्मभ्योऽतिदूरं वस्तु किम् ?
आकाशो वा सूर्यो वा तारका वा ।
I
भूतकालोऽतिदूरं वर्तते । यदि मनुष्यस्य समीपे बहव्यः शक्तयः स्युस्तर्ह्यपि स भूतकालं प्राप्तुं न समर्थः । अतो वर्तमानकालस्य भविष्यत्कालस्य च समीचीन उपयोगः कर्तव्यः ।
अखिले विश्वे स्थवीयो वस्तु किम् ?
पर्वतो वा पृथ्वी वा ।
इच्छा । तस्याः कदाचिदप्यन्तो नाऽऽगच्छति । शास्त्रेऽपि उक्तं "इच्छा उ आगाससमा अणंतिआ" इति ।
यो वस्तु किम् ?
गजो वा लोहं वा ।
अतिगरीयस्तु गृहीतायाः प्रतिज्ञायाः पालनम् ।
लघीयः किम् ?
वायुर्वा तूलं वा ।
येन मनुष्य उन्नतिं प्राप्नोति तस्याऽऽत्मीयाधारस्य त्यागोऽतिलघु वस्तु ।
४३

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96