Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ कथा अहङ्कारस्याऽन्धत्वम् -मुनिधर्मकीर्तिविजयः साधकेनैकेन बहुवर्षाणि साधना कृता । ततोऽचिन्तयत् सः - इदानी मया सर्वमपि ज्ञातं प्राप्तं च, अत इतः परं विशिष्टसाधना न करणीया इति । एकदा नदीतीरे एको जनः स्त्रिया सहोपविश्य समीपस्थचषकात् किमपि पिबति, इति दृष्ट्वा तेन साधकेन चिन्तितम् - एष कीदृशो जनोऽस्ति ? सर्वसम्मुखं स्त्रिया सह मदिरापानं कसेति ? तदैव नद्यामेका नौरुत्पतिता । तस्मिन् आसीना जना नद्यां निमग्ना जाताः । एतद् दृष्ट्वा स जनस्त्वरितं नद्यां कूर्दितः । तेन स्वशक्त्या सर्वेऽपि जनाः संरक्षिताः । एष साधकस्तज्जनस्य समीपं गत्वोक्तवान् - धन्यवादार्हस्त्वम् । त्वया यद् दुष्कर्म कृतं तच्छुद्ध्यर्थमेव भगवता ते हस्ताभ्यामेतत् सत्कार्यं कारितम् । एतन्निशम्य स जन उवाच - मम वा त्यज, तव किं भवेत्, इति चिन्तय । साधकेन कथितम् - मूर्ख ! मया तूत्कृष्टसाधना कृताऽद्यावधि । ममाऽहितं न कदाऽपि भवेत् । स जनोऽवोचत् - त्वयाऽद्यपर्यन्तं यदपि कृतं तत्सर्वं हृदयकर्गजे लिखितमस्ति । ततोऽधुना ते चित्ते 'मया सर्वमपि प्राप्तम्' इति भ्रम उत्पन्नोऽस्ति । भोः ! साधना भ्रमणां नाशयति । तव साधना कीदृशी यया साधनया तव भ्रमो द्विगुणो जातः ? . अहं यत् पिबामि स्म तत्तु नद्या जलमासीत्, अन्यच्च सा स्त्री मम जनन्यासीत् । तथाऽपि त्वया किं चिन्तितम् ? भ्रमो विनष्ट उत वृद्धिङ्गतः ? ... साधको लज्जावनतः सन् तज्जनस्य चरणयोः पतितवान् ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96