Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 17
________________ दुःखात्मकं सुखं यत् तत् त्याज्यं सुखार्थिना स्वयम् । अथवा त्यजनीयं तन्मननीयं दृढं हृदि ॥ २३ ॥ सुखार्थित्वस्य चेद् वाञ्छा धार्यं लक्षणपञ्चकम् । वाञ्छा न चेत् सुखार्थित्वे आस्तां लक्षणपञ्चकम् ॥२४॥ शम - संवेग - निर्वेदानुकम्पा -ऽऽस्तिक्यलक्षणम् । सुखार्थिनो विशुद्धस्य ज्ञेयं लक्षणपञ्चकम् ॥२५॥ शमः शान्ति कषायाणां मन्दभावश्च कथ्यते । तेनाऽपकारिणोऽप्यात्मा हितं चिन्तयति हृदि ||२६|| सुखं निःश्रेयसे शुद्धं नाऽन्यत्र क्वचिदीक्ष्यते । तदेवाऽऽकाङ्क्ष्यते येन संवेगः स उदीरितः ॥२७॥ संसारो नरकागार-कारागारसमो मतः । हेयस्ततो यतो ज्ञातः स निर्वेदः सतां मतः ॥ २८ ॥ जीवाः सर्वेऽपि दुःखार्ता दुःखमिच्छन्ति नांऽशतः । तद्दुःखवारणोत्कण्ठा - ऽनुकम्पा देश- सर्वतः ॥ २९ ॥ वीतरागेण सर्वज्ञ - भगवताऽर्हता हितम् । उक्तमेव भवेत् सत्त्वमास्तिक्यं सद्भिरादृतम् ॥३०॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96