Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ आस्वादः भट्टाकलङ्करचितं कर्णाटकशब्दानुशासनम् __ -डा. एच्. वि. नागराजराव शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याऽऽहुर्मनीषिणः ॥ इत्युक्तरीत्या वेदाङ्गत्वेन प्रथितं व्याकरणम् । पाणिन्यादयः व्याकरणं तया दृष्ट्या प्रणिन्युः । संस्कृतभाषाया एवं बहूनि व्याकरणानि मुनिभिर्विपश्चिद्भिश्च रचितानि विद्योतन्ते । ततो देशभाषाणाम् अपि व्याकरणानि विद्वद्भिर्व्यरच्यन्त । तत्र कर्णाटदेशे भाष्यमाणायाः कन्नडभाषाया व्याकरणं कर्णाटकशब्दानुशासनाख्यं भट्टाकलङ्केन रचितं समुपलक्ष्यते । तद्विषये किञ्चिदत्रोच्यते । भट्टाकलङ्कः श्रेष्ठो वैयाकरणो भट्टाकलङ्को जैनमतावलम्बी विदितनानाशास्त्ररहस्यः संस्कृतादिषड्भाषानिपुण आसीदिति कर्णाटकशब्दानुशासनस्याऽन्ते दृश्यमानैः पद्यैरन्यग्रन्थेभ्यश्च विज्ञायते । आदौ तानि पद्यानि अत्रोल्लिखामः । मङ्गलं भगवानर्हन्मङ्गलं भगवान् जिनः । मङ्गलं प्रथमाचार्यो मङ्गलं वृषभेश्वरः ॥ .. निरुपमसुखदायं निश्चलामेरुपायं, निजगुणसमवायं निर्जितैनोन्यवायम् । निरवधिमतिकायं निर्वृतिश्रीसहायं, निखिलजिननिकायं नित्यमानौम्यमायम् ॥ यो नानामततर्ककर्कशमतिर्व्याख्यानमुद्रापटुर्यः प्राभावयदार्हतं निजमतं भूभृत्सभेऽनेकधा । यः कर्णाटकसंस्कृतोभयविधं शब्दाब्धिमुत्तीर्णवान् सोऽयं साधुजनप्रियो विजयते भट्टाकलङ्को भुवि । यः कर्णाटकशब्दशासनमिदं निर्माय शर्मावहं वृत्तिं चाऽरचयच्च तस्य विदुषां प्रौढां प्ररूढश्रियम् ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96