Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ आस्वादः व्रतग्रहणम् मानुष्यमिहजीवानां दुर्लभं मोक्षप्राप्तये । तन्मूलं हि व्रतं प्रोक्तं चित्तेन्द्रियविशुद्धये ॥ मनुष्याणां पूजितपापानां विनाशाय चेन्द्रियाणां विशुद्धये च मनसोऽपि निर्मलीकरणार्थञ्च जिनेन्द्राणां पूजनाद्यधिकारार्थमुपवासादितपश्चर्यां कुर्यात् । देहादीनां विशुद्ध्यर्थं व्रतं प्रोक्तं महात्मना । विधियुक्तं नरः कृत्वा सर्वं पापं प्रणाशयेत् ॥ प्रथमं स्वेष्टदेवं जिनेन्द्रं ध्यात्वा गुरुं च नमस्कृत्य तदनुज्ञां लब्ध्वा व्रतादीनि चरेत् । तत् किं व्रतम् उपवासादि ? तत्कथं केन प्रकारेण किमर्थं वा कुर्यात् ? (उत्तरम् ) उपवासाज्जनानां मलादिदोषा नश्यन्ति वातपित्तकफादिदोषा अपि नश्यन्ति । व्रतादिना शरीरस्य दुर्बलत्वाच्च शारीरिकविकारा अपि नश्यन्ति । इन्द्रियाणि दुर्बलानि भवन्ति । तस्मादिन्द्रियविकारा अपि नश्यन्ति । मनसश्च सङ्कल्पादिविकारा दुर्बलत्वान्नश्यन्ति । व्रतपुण्यैः पूर्वजन्मकृतानि पापानि नश्यन्ति । शरीरस्य दुर्बलत्वादिहजन्मनि पापानि न भवन्ति । शरीरस्था: काम-क्रोधेादिदोषा अपि नश्यन्ति । पराश्च दयासत्यविनयविवेकवैराग्यादिसद्गुणाः प्रादुर्भवन्ति । (व्रतविवरणम्) तद् व्रतं केन प्रकारेण कर्तव्यम् ? शरीरं निर्मलं कुर्यात्तपश्चर्याव्रतादिभिः । शास्त्रोक्तविधिना चैव गुर्वाज्ञाग्रहणोद्यतः ॥ व्रतम्-उपवासः, तपस्तु-इन्द्रियदमनम् । व्रतेषु निराहारत्वं - न केषाञ्चित्पदार्थानां फलादीनां वाऽऽहारः । १७

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96