Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ अथ धनपालपण्डितो विमृश्यैवमाह - यद्येवं तर्हि निर्गुणिनो जनाः 'मनुष्यरूपाः पशवश्चरन्ति' इत्येवं वाच्याः । अथाऽन्यो विद्वानुवाच – एतदप्यनुचितं, नैतच्छोभते सभ्यसभायां नीतिरिक्तं भवद्वचः । अस्यां संसृतौ नहि पशुमन्तरा किमपि कार्यं भवितुमर्हति, तच्छरीरावयवादिभिरेव बहूनि कार्याणि सम्पाद्यन्ते । पशव एव सर्वेषां जनानां परमोपकारकारणं जीवनञ्च । तेषां शरीरावयवा न निरर्थकाः, किञ्च सार्थका एव । तथाहि - कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिखिनां रोमाण्यवीनामपि । पुच्छ-स्नायु-वसा-विषाण-नखर-श्वेदादिकं किञ्च न, स्यात्कस्याऽप्युपकारशून्यवपुषो मानुष्यकं भोः ! पुनः ॥ पशुषु गोपक्षमाश्रित्य - तृणमत्ति राति दुग्धं, छगणं च गृहस्य मण्डनं । रोगापहारि मूत्रं, पुच्छं कोटिदेवतास्थानम् ॥ गोश्च दर्शनमपि मङ्गलास्पदम् । संसारे प्रायो यावन्ति शुभकार्याणि, तेषु गोदधिदुग्धसींषि सर्वोत्कृष्टानि बलबुद्धिवर्द्धकानि च भवन्ति । गोमूत्रमप्यनेकरोगापहारि, अशुचिविनाशकञ्च । गोमूत्रे कर्पासमार्दीकृत्य क्षेत्रे संवपेञ्चेन्न कदापि निष्फलं याति, न च कथञ्चन शटति । अतोऽयं सर्वपशुभ्यः श्रेष्ठतम इति । वृषभमपि - गुरुशकटधुरन्धरस्तृणाशी, समविषमेषु च लाङ्गलापकर्षी । जगदुपकरणं पवित्रयोनिर्नरपशुना किमु मीयते गवेन्द्रः ॥ अतो निर्गुणिनो नुर्न पशोस्तुल्यत्वम् । अथाऽयं धनपालो विद्वान् पशुगुणान् श्रावं श्रावं बभाषे – यद् वस्तुसारासारबोधविचारशून्या निर्गुणाः पुमांसः 'मनुष्यरूपेण शुनः स्वरूपाः' इत्येवं विज्ञेयाः । ततः पुनः प्रतिपादी श्वपक्षमाश्रित्याऽऽह - स्वामिभक्तः सुचैतन्यः, स्वल्पनिद्रः सदोद्यमी। स्वल्पसन्तोषो वाक्शूरः, तस्मात्तत्तुल्यता कथम् ॥ सारमेया हि येषां दानशून्यौ करौ, धर्मवचनश्रवणशून्ये श्रुती, असत्योद्गारापवित्रमास्यम्, साधुदृष्टिशून्ये दृष्टी, तीर्थमार्गरजःशून्यावङ्घी, अन्यायोपार्जितवित्तपूर्णमशुचिकमुदरम्, तेषां पिशितमपि नाऽदन्ति । तथा ते शुभाशुभसूचकान्यङ्कान्यपि कुर्वते, इत्यादयः श्वस्वपि बहवो गुणाः । अथ धनपालो निर्गुर्णानरान् ‘मनुष्यरूपेण खराश्चरन्ति' इत्याह । ततः प्रतिपक्षी खरं पक्षीकृत्याऽवक् शीतोष्णं नैव जानाति, भारं सर्वं दधाति च । तृणभक्षणसन्तुष्टः, प्रत्यहं भद्रकाकृतिः ॥ २३

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96