Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इत्थं भट्टाकलङ्कविरचितग्रन्थस्याऽध्ययनात् छात्राणां न केवलं कनडशब्दानाम् एव ज्ञानम्, अपि तु नानाशास्त्रज्ञानम् अप्युत्पद्यते । अस्मिन् व्याकरणे सन्ति अष्टोनषट्शतसंख्यानि(५९२) सूत्राणि । तेषु कन्नडभाषायाः समस्तं वैशिष्ट्यं प्रतिपादितम् । चतुर्षु पादेषु विषयविभाग इत्थमस्ति -
प्रथमपादे समाम्नायः, संज्ञाः, अव्ययानि, सन्धिश्च । द्वितीयपादे लिङ्गं, संस्कृतभाषाया गृहीताः 'तद्भव'शब्दाः । तृतीयपादे समासाः, सर्वनामानि, संख्यावाचकानि, तद्धितान्ताः शब्दाः । चतुर्थे पादे धातवः, तिङन्ताः, तत्प्रत्ययाः इत्यादि ।
देवचन्द्रविरचितायां राजावलीकथायां कथ्यते यद् भट्टाकलङ्कः सुधापुरनाम्नि ग्रामे शास्त्राण्यध्यैष्ट, स षट्सु भाषासु काव्यं रचयितुं शक्त आसीदित्यादि । विजयनगरसाम्राज्यस्य सम्राट् वेङ्कटपतिः (क्रिस्तशके १५२६-१६१५) भट्टाकलङ्कस्य पोषक आसीदिति शिलाशासनेषु क्वाचिदुल्लिखितमिति तज्ज्ञाः कथयन्ति । भट्टाकलङ्कस्य व्याकरणं सर्वेषाम् अध्ययनम् अर्हतीति शम् ।
___90, 9th Cross, Navilu Road, Kuvempunagar,
Mysuru,570023

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96