Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 23
________________ ३. का ॐ 3 पुष्पदन्तपुराणम् पञ्चतन्त्रम् नेमिनाथपुराणम् १२. कब्बिगर काव कविराजमार्गः लीलावती कान्यावलोकनम् काव्यसारम् पम्परामायणम् चन्द्रप्रभपुराणम् धर्मामृतम् साहसभीमविजयम् ७. शब्दमणिदर्पणः १७. धर्मनाथपुराणम् आदिपुराणम् १८. गुम्मटस्तुतिः ९. कर्णाटभाषाभूषणम् १९. धर्मपरीक्षा १०. जिनाक्षरमाला २०. जगन्नाथविजयम् अन्यानि बहूनि पद्यानि विद्यन्ते भट्टाकलङ्केन उदाहृतानि येषाम् आकरान् वयं न विद्यः । प्राचीनानां ग्रन्थकाराणां ज्ञानस्य वैशाल्यं गाम्भीर्यं च नूनं विस्मयकारि । तर्कशास्त्रे तस्य वैचक्षण्यम् अधोनिर्दिष्टैर्वाक्यैरवगम्येत । _ "अनेनोक्तलक्षणस्य परमात्मनः सत्त्वेऽनुमानं प्रमाणमुन्नीतं भवति । तथा हि प्रवचनवाक्यानि कर्तृजन्यानि, वाक्यत्वात् प्रसिद्धवाक्यवदिति । दृष्टं हि प्रसिद्धवाक्येषु कर्तृजन्यत्वम् । तथा प्रवचनवाक्येष्वपि । कर्तृजन्यत्वे सिद्धे यस्तेषां कर्ता स एव केवलज्ञानीति" । "ननु वाक्यत्वं कर्तृजन्यत्वव्याप्तं सत् कर्तारमेव आक्षिपति, न तु तस्य केवलज्ञानमपि । तदभावेऽनुपपत्त्यभावादिति चेन्न, वाक्यत्वेन हेतुना सिध्यन् कर्ता पक्षधर्मताबलात् केवलज्ञानी सिध्यति । इतरेषां प्रवचनकर्तृत्वायोगात् । यथा क्षित्यादिपक्षकसकर्तृकत्वानुमाने कार्यत्वेन हेतुना सिद्धे कर्तरि सार्वज्ञ्यादीति" | "अथवा प्रवचनवाक्यानि स्वप्रतिपाद्यगोचरयथार्थज्ञानवत्पुरुषप्रणीतानि, अबाधितार्थबोधकवाक्यत्वात् सम्प्रतिपन्नवाक्यवत् इत्यनेन यः प्रवचनप्रणेता स्वप्रतिपाद्यगोचरयथार्थज्ञानवान् पुरुषः सिध्यति स एव केवलज्ञानी । तत्प्रतिपाद्यानां देशकालस्वभावविप्रकृष्टानां स्वर्गनरकादिभूत-भाविकालवर्तिधर्माधर्मपरमाण्वादीनां किञ्चिज्ज्ञबोधागोचरत्वात् । अत्र च वाक्यत्वमात्रस्य सुप्तोन्मत्तादिप्रलपिताबोधकवाक्ये, अर्थबोधकवाक्यत्वस्य च भ्रान्तप्रतारकादिप्रयुक्तबाधितार्थबोधकवाक्ये, अर्थबोधकत्वस्य च तादृगर्थबोधकाप्ताभासे, अबाधितार्थबोधकत्वमात्रस्य च यथोक्तार्थबोधके प्रणेतर्येव व्यभिचारसम्भवात् एवं विशिष्ट एव हेतुरुक्तः । तत्र सर्वत्र हेतुसत्त्वेऽपि विवक्षितसाध्याभावात्" । १५

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96