Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 26
________________ उक्तं च असकृज्जलपानाच्च सकृत्ताम्बूलभक्षणात् । उपवास: प्रणष्टः स्याद् दिवास्वापाच्च मैथुनात् ॥ अतो जलमपि एकवारमेव ग्राह्यं न तु पुनः पुनः । तर्हीतरेषां फलादिपदार्थानामाहारात् तद् व्रतं नश्यति इति सिद्धम् । तस्मात् सकलाहारं त्यक्त्वा व्रतं परिपूर्णं भवति । एतादृशमपि न, किन्तु सकलेन्द्रियाणामाहारस्त्याज्यः । तद्यथा - नेत्राभ्यां व्यवहारविषयं न पश्येत्, श्रोत्राभ्यां व्यवहारवचनानि न श्रोतव्यानि, जिह्वया न व्यवहारवचनं(रसं) वदेत् (रसयेत्), हस्ताभ्यां तत्क्रियां न कुर्यात्, पद्भ्यां तद्देशं न गच्छेत्, मनसाऽपि तद्विचारं न कुर्यात् । कामक्रोधेर्ष्यापारुष्यासत्यपरहिंसापरद्रोहपरनिन्दात्मस्तुतिपरापवादपरस्त्रीनिरीक्षणपरद्रव्यस्तेयादिदोषान् मनसाऽपि न कुर्यात् ( चिन्तयेत् ) । परञ्च तत्तदिन्द्रियाणि जिनेश्वरे गुरौ शास्त्रे वा नियोजयेत् । विशेषतो मौनमेव धार्यम् । धर्मविधावेव वक्तव्यं न त्वन्यत्र, मनोऽपि जिनेष्वेव नियोजयेत् न त्वन्यत्र । एवंविधव्रताचरणात् शरीरेन्द्रियादीनि शुद्धयन्ति । मनो निर्मलतां याति । तन्मनः परमात्मनि दृढीभवति । तदा तत्कर्तुः सर्वाणि पापानि नश्यन्ति । पुनः सत्कर्माणि सद्विचाराँश्च कृत्वा शास्त्रोक्तमार्गेण मोक्षं प्राप्नोति इति शम् ॥ १८

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96