Book Title: Nandanvan Kalpataru 2017 11 SrNo 39
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ प्रमाणमध्यक्षमहो ! महेश्वरे . न चाऽस्ति किञ्चिद् यदसावगोचरः । न लिङ्गमस्याऽव्यभिचारि दृश्यते- ऽनुमानवातेति गता विदूरतः ॥६॥ न चाऽस्ति सादृश्यमनन्यतुल्यके - न वेद वेदोऽपि विभोविवेचनाम् । इति प्रमाणैर्न च सिद्ध्यतीश्वरः कथं तथा श्रद्दधते सचेतनः ॥७॥ यदि श्रुतिस्तं प्रतिपादयेत् परं, श्रुतेः प्रमाणं न हि सुज्ञसम्मतम् । वचः प्रमाणं किल वक्तृनिर्भरं, श्रुतेर्विधाता न हि कोऽपि लक्ष्यते ॥८॥ अनादिसिद्धा यदि सा निरूप्यते तदाऽपि तन्नैव सुयुक्तिसंगतम् । अनादिसिद्ध वचसामुदीरणं श्रुतं न दृष्टं तदिदं विभाव्यताम् ॥९॥ विना मुखं नैव वचः प्रवर्तते मुखं कुतो भावि शरीरमन्तरा । ऋते ह्यदृष्टं न च दृष्टमङ्गकं हतं तथाऽदः परकीयशासनम् ॥१०॥ यदि स्वतन्त्रो भगवास्त्वयोच्यते स्वतन्त्रताया इह नाऽऽप्यते कला । अनेकदोषैः परिपूर्णमेतकं जगत् स्वतन्त्रो न कदाऽपि संसृजेत् ॥११॥ जिजीविषा कञ्चन बाधते भृशं मृतिं च कश्चित् त्वरितं समीहते । क्वचित् सुतानां विततिः सुदुर्भरा क्वचित् सुतार्थं विविधं प्रतप्यते ॥१२॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96