Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ परिवहनसङ्केतान् (Traffic Signals) यथावदनुसरन्तो नियमांश्चाऽनुपालयन्तो दृश्यन्ते स्म । यदा च भूकम्पोऽनुभूतस्तदा ह्येकत्रोपाहारगृहे जना आहारं कुर्वाणा आसन् । भूचालनानन्तरं सर्वे एव ततो बहिरागता आसन् । यावच्च भूकम्पाघाताः शान्ताः सञ्जातास्तावतैव सर्वेऽपि ते आहारकर्तारः समागत्य देयं धनं दातुं पङ्क्तिशः स्थिताः !! भूकम्पपीडितक्षेत्रेषु निजनिजस्वजनानन्वेष्टुं गच्छतां जनानां व्यवहारोऽपि निराकुलो भावोद्रेकरहितः परिदेवनादिवियुक्तश्चाऽऽसीत् ।। सामान्यजनाः पत्रकारादयश्च केऽपि सर्वकारेऽधिकारिजनेषु च दोषारोपणं नैव कृतवन्तः । सर्वकारीयाधिकारणोऽपि न कानिचिन्मिथ्याऽऽश्वासनानि मुधा वचनानि वा ददति स्म । न च केऽपि मन्त्रिणो हेलिकोप्टर-यानादिषु समारुह्य भूकम्पपीडितक्षेत्राणामवलोकनं कर्तुं निर्गता दृष्टाः ।। एषा परिस्थितिरस्ति जपानदेशवासिनाम् । इदानीमस्माकं देशे यदि काऽपि प्राकृतिक्यापत्तिः समापतेत् तदा कीदृशी परिस्थितिर्भवेत् - इति विचिन्त्य तस्यास्तुलनां जपानीयपरिस्थित्या सह क्रियेत तदा केवलमेतावदेव वक्तव्यं स्यात् - यद् अस्माकं मस्तकं लज्जाभारेणाऽवनतं जातमिति । ____ जपानदेशसदृशं स्वयमनुशासनयुतं नैतिकता-प्रामाणिकता-सदाचारादिगुणसमन्वितं च राष्ट्रीयं चारित्र्यं कथं निष्पन्नं भवेत् ? तदर्थं चोत्तरदायित्वं कस्य ? इति चिन्तितं कदाऽपि !! चैत्र शुक्ला प्रतिपत् कीर्तित्रयी - वि.सं. २०७३, अहमदाबादनगरम्

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 98