Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 69
________________ शिक्षकः सर्वेषु जामितामनुभवत्स्वपि नीरसतां जनयन्ति वाक्यानि वदन् यो नैव विरमति स कः स्यात् ? रमणः "अध्यापकः " महोदय ! चिकित्सालये सूचनाफलकम्धूमपानेन भारस्य परिहाणिर्भवति (weight-loss) शरीरात् फुप्फुसयोर्हानिर्भवति !! नापितापणे फलकं लम्बमानमासीत् - "अस्माकं व्यवसायो भवतां मस्तकमवलम्बते ।" अये ! अम्ब ! मां भ्रमरोऽदशत् । तत्र किञ्चनौषधं लेपयतु। किन्तु भ्रमरस्तूड्डीनः !! यदाऽप्यहं चिन्तयामि तदाऽऽश्चर्यचकितो भवामि यद्-येन प्रथमं घटिकायन्त्रं निर्मितं तेन तत्र समयः कथं विन्यस्तः - इति । अस्मिन् जगति चतुरङ्गक्रीडैवैकाऽस्ति या पत्थुः परिस्थिति सम्यग् निरूपयति । अस्यां क्रीडायां राजा (पतिः) एकस्मिचारे एकमेव पदमग्रे सर्तुं शक्नोति कस्यामपि दिशि । एतद्विपर्यासेन महाशक्तिशालिनी राज्ञी (पत्नी) एकस्मिंश्चारे यथेच्छं पदान्यग्रेसतुं शक्नोति कस्यामपि दिशि !! (ग्राहकः कुत्रचिदापणे विविधमुपस्करं क्रेतुमादिशति) आपणिकः यदा भवान् पूर्वं गृहीतस्योपस्करस्य देयं धनं दास्यति तदैवैष उपस्करो भवद्गृहं प्रापयिष्यते। ग्राहकः एतावतीं प्रतीक्षां कर्तुं नैव सिद्धोऽहम् । आदेशो निरस्यते !! (Order Cancelled)

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98