Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मर्म नर्म
- कीर्तित्रयी
I
+
भवतो वयः किम् ? नाऽहं जानामि ! कथमिव न जानाति भवान् ? प्रत्यहं तत् परावर्तते, तत् कथं जानीयाम् ?
I
+
+
न्यायाधीशः त्वयैतस्य धनं चोरितं ननु ?
अपराधी नैव महोदय ! अनेन स्वहस्तेन मे धनं दत्तम् । न्यायाधीशः अहो ! एवं वा? कदाऽनेन ते धनं दत्तम् ? अपराधी यदा मयाऽस्य छुरिका दर्शिता तदा महोदय !
रमणः
भोः ! सखे ! अस्मिन् वर्षेऽहं पुनरप्यनुत्तीर्णो जातः । इदानीं किं करवाणि ? पित्रे कथमिव कथयानि ? न किञ्चित् ज्ञायते !! चिन्ता माऽस्तु भोः ! तव पितुर्जङ्गमदूरभाषे लघुसन्देशमेकं (SMS) प्रेषय - "परिणामो घोषितः, गतवर्षे इव अस्मिन् वर्षेऽपि सातत्यपूर्ण प्रदर्शनम् ।"
गमनः ।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98