Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ प्राकृतविभाग: प्राकृतव्याश्रयमहाकाव्यस्य संस्कृतानुसर्जनम् (संस्कृत पद्यानुवादः) - पं. नरेन्द्रचन्द्र-झा द्वितीय सर्गः पङ्कजकेसरकान्तिः सिंहचपेटाचपेटकोऽक्लिन्नः । क्लृप्तसकेसरदामा सोऽथ प्रवृत्तः श्रमं कर्तुम् ॥१॥ गुरुचित्तहरो रेवति-सीतादेवरकयोर्बलस्तेन । पीडां चकार स स्वयमक्लान्तो मल्लशैलानाम् ।।२।। तस्य शनैश्चरपितुरिवमल्लकुलं करहतं यथा लवणम् । धर्मजला जातं स्वपरसैन्याय॑मपि कामम् ॥३॥ मुरवैरीव त्रात ! दानवविद्वेष ! देवतासैन्यः । तत्राऽग्रहीत् सचापं कैलासे हरो यथा राजा ॥४॥ दैवालक्ष्यो दैवेऽशङ्कः पृथिवीतले नवो दैवः । उच्चावचेऽपि लक्ष्येऽस्खलितो विपक्षधृतिहरणः ।।५।। अन्योन्यं खलु योधैर्दैवतवर्गः प्रशंसितोऽत्यर्थम् । सुन्दरसरलितकुञ्चितयुगलप्रकोष्ठः शरान् वृष्टः ॥६॥ कर्णो वलितमनोहरप्रकोष्ठकरसरसिजेन सम्राजः । लम्बितनालसरोरुहशेखरितो यस्य सन्धाने ॥७॥ कृतखलमस्तकपीडं मौलौ कुसमावतंसितोऽपीडम् । आतोधिकसंवदितमुरजादीनामदृष्टपुटदलनम् ॥८॥ सोच्छवासवलितचिबुक्श्चक्रे गोपुच्छमुख्यबाणौघैः । हरभार्गवसौन्दर्यं कार्मुककुशलोऽमितं प्राप्तः ॥९॥ ६३

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98