________________
परिवहनसङ्केतान् (Traffic Signals) यथावदनुसरन्तो नियमांश्चाऽनुपालयन्तो दृश्यन्ते स्म ।
यदा च भूकम्पोऽनुभूतस्तदा ह्येकत्रोपाहारगृहे जना आहारं कुर्वाणा आसन् । भूचालनानन्तरं सर्वे एव ततो बहिरागता आसन् । यावच्च भूकम्पाघाताः शान्ताः सञ्जातास्तावतैव सर्वेऽपि ते आहारकर्तारः समागत्य देयं धनं दातुं पङ्क्तिशः स्थिताः !! भूकम्पपीडितक्षेत्रेषु निजनिजस्वजनानन्वेष्टुं गच्छतां जनानां व्यवहारोऽपि निराकुलो भावोद्रेकरहितः परिदेवनादिवियुक्तश्चाऽऽसीत् ।।
सामान्यजनाः पत्रकारादयश्च केऽपि सर्वकारेऽधिकारिजनेषु च दोषारोपणं नैव कृतवन्तः । सर्वकारीयाधिकारणोऽपि न कानिचिन्मिथ्याऽऽश्वासनानि मुधा वचनानि वा ददति स्म । न च केऽपि मन्त्रिणो हेलिकोप्टर-यानादिषु समारुह्य भूकम्पपीडितक्षेत्राणामवलोकनं कर्तुं निर्गता दृष्टाः ।।
एषा परिस्थितिरस्ति जपानदेशवासिनाम् । इदानीमस्माकं देशे यदि काऽपि प्राकृतिक्यापत्तिः समापतेत् तदा कीदृशी परिस्थितिर्भवेत् - इति विचिन्त्य तस्यास्तुलनां जपानीयपरिस्थित्या सह क्रियेत तदा केवलमेतावदेव वक्तव्यं स्यात् - यद् अस्माकं मस्तकं लज्जाभारेणाऽवनतं जातमिति । ____ जपानदेशसदृशं स्वयमनुशासनयुतं नैतिकता-प्रामाणिकता-सदाचारादिगुणसमन्वितं च राष्ट्रीयं चारित्र्यं कथं निष्पन्नं भवेत् ? तदर्थं चोत्तरदायित्वं कस्य ? इति चिन्तितं कदाऽपि !! चैत्र शुक्ला प्रतिपत्
कीर्तित्रयी - वि.सं. २०७३, अहमदाबादनगरम्