Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 49
________________ मर्म गभीरम् + (१) जीवनयात्रा जीवनयात्रायः कः पन्थाः ? दैनन्दिनं जीवनमेव खलु ! अस्याऽभ्यासः कथं कर्तव्यः ? + यद्यभ्यासस्य प्रयत्नं कुर्यात तर्हि भ्रान्ता भवेत !! - मुनिकल्याणकीर्तिविजयः (२) रक्षणम् राम-लक्ष्मणौ रावणात् सीतां मोचयितुं लङ्कां प्रति प्रस्थितौ । सुग्रीवो हनुमान् समग्रा च वानरसेना तयो: सहयोगार्थं सहैव आसन् । अथ च लङ्कां गन्तुं समुद्रस्तूल्लङ्घयितव्य एव । अतो वानरसेना सेतुं निर्मातुमुद्युक्ता । सहस्रशो वानरा अहर्निशं कार्यं कुर्वन्ति स्म । महतः पाषाणखण्डान् ग्राहं ग्राहं ते सामुद्रे जले रामनामग्रहणपुरस्सरं क्षिपन्ति स्म । ततश्चाऽतिगुरवोऽपि ते पाषाणा जले नैव निमज्जन्ति स्माऽपि तु तरन्तः सन्तः सेतुबन्धं निर्मान्ति स्म । रामः सर्वमपि निरीक्षते स्म । तेन चिन्तितं - 'वराका अते वानराः कियन्तं परिश्रमं कुर्वाणाः सन्ति ! अहं त्वेवमेवोपविष्टोऽस्मि निष्क्रियः । अतोऽहमपि तावत् तेषां साहाय्यं करोमि किञ्चित्' । सोऽपि महान्तमेकं शिलाखण्डमानीय जले क्षिप्तवान् । क्षिप्तमात्र एव च जले निमग्नः स खण्ड: । एतेन रामस्य महदाश्चर्यं सञ्जातं कोपोऽपि च समुद्गतः । स धावित्वा पुनरपि द्वि-त्रान् पाषाणान् समानीतवान् जले क्षिप्तवांश्च । किन्तु तेषामपि सैव गतिरभवत् । एतत् सर्वं विलोकयन् हनुमान् उच्चैर्हसितुमारब्धः । एतेन रामो भृशं लज्जितः । तदा हनुमान् कथितवान् ‘प्रभो ! यदा वयं पाषाणान् जले मुञ्चामस्तदा भवतो नाम गृहीत्वा मुञ्चामो येन नामस्वरूपो भवान् तान् ४०

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98