Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथितवांश्च - "महाराज ! क्षौरकार्येऽहमनयोः कलशास्त्रयोः पारगामी अस्मीति मम कथनस्याऽर्थः ।"
'सकलशास्त्रपारगामी अस्मि' इतिवाक्यस्येमं विलक्षणमर्थं श्रुत्वा सर्वे पण्डितवर्या अतिहास्यपूर्णा अभवन् । स च क्षौरिको राज्ञा सभाध्यक्षपदच्युतः कृतः । ___ अस्माकं प्रबोधिकेयं कथा । स क्षौरिकस्तु अज्ञ आसीत्, अतस्तेनैवं तम् । परं, प्राज्ञा अपि वयं कदाचित् 'अहं सर्वविषयाणां ज्ञाता इति, अहं सर्वेभ्य उत्तम इति, अहं च सर्वेभ्यो मतिमानिति' अभिमानयुता भवामः । परं नूनं स्मर्तव्यम् - अहं श्रेष्ठ उत्तम इति प्रमाणार्थं जीवनं न पूर्णीकर्तव्यम् । परन्तु तेषां गुणादीनां प्राप्त्यर्थं योग्यैर्भवितव्यम् । यदि योग्यतां प्राप्स्यामस्तहि सिद्धिरस्माकं सहचरी भविष्यति नूनम् ।

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98