Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ कथा मानवभवस्य मूल्यम् - मुनिधर्मकीर्तिविजयः आसीदेको धनिकः श्रेष्ठी । सद्भाग्येन सहाऽस्य मैत्री सुष्ठ विद्यत्ते । सद्भाग्येन स सर्वत्र सफलतामेव प्राप्नोति स्म । आनन्देन स कालं गमयति स्म। एकदा दैवं कुपितम् । ततस्य श्रेष्ठिनो वाणिज्ये पुष्कलं धनं विनष्टम् । तस्य मन उद्विग्नं जातम् । मनसि बहवो विकल्पा सञ्जाताः । रक्षणस्य न कोऽप्युपायः प्राप्तस्तेन । अन्ते, मरणमेव शरणमिति निर्णीतं तेन । भाग्यबली तदैवैक: सद्गुरुः गृहे भिक्षार्थमागतवान् । भोजनं दत्त्वा तेन श्रेष्ठिना गुरुभगवते निवेदितम् - प्रभो! मम समीपे विपुलं धनमासीत्, किन्त्वद्य सर्वमपि नष्टं जातम् । अहं कि करवाणि? भवान् कमप्युपायं दर्शयतु, येन जीवनं स्थिरीभवेत्। गुरुदेव उवाच - भो !! त्वं यन्नष्टं तदेव पश्यसि, किन्तु तव समीपे यदस्ति तदपि पश्य । श्रेष्ठी कथितवान् - प्रभो ! मम समीपे न किमप्यस्ति, सर्वमपि नष्टं जातम् । गुरुभगवता श्रेष्ठिनो बोधार्थं दृष्टान्तः कथितः - रणजितसिंहराजः प्रासादस्य गवाक्षे आसीनः । तदा प्रासादस्य बहिरेको याचको याचनार्थमागतवान् । राज्ञा स दृष्टः । तत्क्षणं राजा तत्समीपमागतवान् पृष्टवाँश्च - किं त्वमिच्छसि ? याचकेन धनं याचितम् । राज्ञोक्तं - मम समीपे यदस्ति तदर्धं तुभ्यं दद्यां, तव समीपे यदस्ति तदर्धं मह्यं दद्याः । भिक्षुकेण राज्ञो वचनं स्वीकृतम् । राजोवाच - वद ! किं दद्याम् ? याचको गदितवान् - राजन् ! मह्यमधु राज्यं ददातु भवान् । राजाऽकथयत् - सत्यं, ते वचनं स्वीकरोमि । अधुनाऽहं याचे - तव समीपे द्वे नयने स्तः । ताभ्यां नेत्रमेकं मह्यं देहि त्वम् । ४४

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98