Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ कथा मानवप्रेम - मुनिधर्मकीर्तिविजयः एको भक्तः स्वशयनखण्डे सुप्त आसीत् । तेनैकः स्वप्नो दृष्टः - स्वगृहस्याऽपवरके प्रकाशः प्रसृतः । सुगन्धीनि सुन्दराणि च पुष्पानि उद्गतानि । तत्रोपस्थित एको देवदूतः पुस्तके किमपि लिखितवानस्ति । भक्तः पृष्टवान् - भवान् किं लिखितवानस्ति ? देवदूत उवाच - ये ये जीवा भगवति प्रेम कुर्वन्ति, तेषां सर्वेषां जनानां नामानि लिखामि किल । भक्तेन पृष्टं - किं मम नामाऽस्त्यत्र ? देवदूत उक्तवान् - नास्ति। एतच्छ्रुत्वाऽतिनम्रभावेन प्रशान्तमनसा भक्तेन कथितम् - महोदय ! ये ये जना मानवेषु प्रेम कुर्वन्ति, तेषां मानवानां श्रेण्यां मम नाम लिखतु भवान्, इति । एवं लिखित्वा क्षणं देवदूतोऽदृश्यतां प्राप्तवान् । द्वितीयदिने रजन्यां पुनर्दिव्यप्रकाशो देवदूतश्च तेन दृष्टः । तदैव देवदूतोऽवदत् - भगवता येभ्यो जीवेभ्य आशीर्दत्ता, तादृशानां मानवीनां श्रेण्यां प्रथममस्ति ते नाम । 'सर्वजीवेषु प्रेम देयम्' - इति येन शिक्षितम्, स धर्म उच्यते । ४३

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98