SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ कथा मानवप्रेम - मुनिधर्मकीर्तिविजयः एको भक्तः स्वशयनखण्डे सुप्त आसीत् । तेनैकः स्वप्नो दृष्टः - स्वगृहस्याऽपवरके प्रकाशः प्रसृतः । सुगन्धीनि सुन्दराणि च पुष्पानि उद्गतानि । तत्रोपस्थित एको देवदूतः पुस्तके किमपि लिखितवानस्ति । भक्तः पृष्टवान् - भवान् किं लिखितवानस्ति ? देवदूत उवाच - ये ये जीवा भगवति प्रेम कुर्वन्ति, तेषां सर्वेषां जनानां नामानि लिखामि किल । भक्तेन पृष्टं - किं मम नामाऽस्त्यत्र ? देवदूत उक्तवान् - नास्ति। एतच्छ्रुत्वाऽतिनम्रभावेन प्रशान्तमनसा भक्तेन कथितम् - महोदय ! ये ये जना मानवेषु प्रेम कुर्वन्ति, तेषां मानवानां श्रेण्यां मम नाम लिखतु भवान्, इति । एवं लिखित्वा क्षणं देवदूतोऽदृश्यतां प्राप्तवान् । द्वितीयदिने रजन्यां पुनर्दिव्यप्रकाशो देवदूतश्च तेन दृष्टः । तदैव देवदूतोऽवदत् - भगवता येभ्यो जीवेभ्य आशीर्दत्ता, तादृशानां मानवीनां श्रेण्यां प्रथममस्ति ते नाम । 'सर्वजीवेषु प्रेम देयम्' - इति येन शिक्षितम्, स धर्म उच्यते । ४३
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy