Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ ग्रन्थपरिचयः अर्धजरती (कथासङ्ग्रहः) -कीर्तित्रयी लेखकः - डा. विश्वासः प्रकाशनवर्षम् - ऐसवीयं २०१७तमं वर्षम् मूल्यम् रू.४५.०० पृष्ठानि ___ - ८+ ८८ प्रकाशिका - संस्कृतभारती ___ अक्षरम्, ८ उपमार्गः, २ घट्टः, गिरिनगरम् - बेंगलूरु - ५६००८५ संस्कृतसम्भाषणान्दोलनस्याऽऽरम्भकालादपि संस्कृतभारतीसंस्था द्वारा संस्कृतवाणी सेवारतस्य डा. विश्वासमहोदयस्य नूतना साहित्यकृतिरियम् 'अर्धजरती'-त्यभिधः कथासङ्ग्रहः । अस्मिन् सङ्ग्रहे तेन विरचिता नव कथाः सङ्ग्रहीताः सन्ति । तासु काश्चन 'कथासरित्', 'संस्कृतप्रतिभा' -इति पत्रिकयोः पूर्वं प्रकाशिताः, अन्यास्त्वैदम्प्राथम्येनाऽत्र प्राकाश्यं नीताः सन्ति । कथानुक्रमश्चैवमस्ति - पुरस्काररहस्यम्, पुनरायान्महाकपिः, अर्धजरती, स्वामिपादानामन्तरङ्गम्, अनिमित्तबन्धुः, इदमुदाहरणम्, विधिलीला, दण्डशुल्कम्, स्वार्थः - इति । तत्र च तृतीयायाः 'अर्धजरती' त्यभिधायाः कथाया नाम्नाऽस्य सङ्ग्रहस्य नामाचरणम् 'अर्धजरती' इति कृतमस्ति । विश्वासमहोदयस्य कथाकथनशैली सरलाऽपि मर्मस्पृगस्ति । तदीयां शैलीमधिकृत्याऽऽधुनिकसंस्कृतसाहित्ये ऋषितुल्यस्य डा. राधावल्लभ-त्रिपाठीमहोदयस्य वचनानीमानि कानिचित् पठनीयानि – “विश्वासेन कथायाः काऽपि स्वीया शैली विकासं नीता, यस्यां भाषा वस्तुनः सर्वथा सख्यं समाचरित । अस्य प्रत्येकं वाक्यं प्रत्येक शब्दश्च सार्थको भवति । प्रत्येकं वाक्यं मनसि श्लिष्यति । सर्वाणि पदानि वर्णनीयं साक्षात्कारयन्ति । कथा स्वयं भारतवर्षस्य एकविंशशताब्धाः समाजं नवीनाः पद्धतीश्च सविमर्श परामृशति ।" "संस्कृतकथा इतरासु भाषासु सम्प्रति विरच्यमानाभ्यः कथाभ्यो विशिष्यते विभिद्यते तत्साम्यमावहति

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98