SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ग्रन्थपरिचयः अर्धजरती (कथासङ्ग्रहः) -कीर्तित्रयी लेखकः - डा. विश्वासः प्रकाशनवर्षम् - ऐसवीयं २०१७तमं वर्षम् मूल्यम् रू.४५.०० पृष्ठानि ___ - ८+ ८८ प्रकाशिका - संस्कृतभारती ___ अक्षरम्, ८ उपमार्गः, २ घट्टः, गिरिनगरम् - बेंगलूरु - ५६००८५ संस्कृतसम्भाषणान्दोलनस्याऽऽरम्भकालादपि संस्कृतभारतीसंस्था द्वारा संस्कृतवाणी सेवारतस्य डा. विश्वासमहोदयस्य नूतना साहित्यकृतिरियम् 'अर्धजरती'-त्यभिधः कथासङ्ग्रहः । अस्मिन् सङ्ग्रहे तेन विरचिता नव कथाः सङ्ग्रहीताः सन्ति । तासु काश्चन 'कथासरित्', 'संस्कृतप्रतिभा' -इति पत्रिकयोः पूर्वं प्रकाशिताः, अन्यास्त्वैदम्प्राथम्येनाऽत्र प्राकाश्यं नीताः सन्ति । कथानुक्रमश्चैवमस्ति - पुरस्काररहस्यम्, पुनरायान्महाकपिः, अर्धजरती, स्वामिपादानामन्तरङ्गम्, अनिमित्तबन्धुः, इदमुदाहरणम्, विधिलीला, दण्डशुल्कम्, स्वार्थः - इति । तत्र च तृतीयायाः 'अर्धजरती' त्यभिधायाः कथाया नाम्नाऽस्य सङ्ग्रहस्य नामाचरणम् 'अर्धजरती' इति कृतमस्ति । विश्वासमहोदयस्य कथाकथनशैली सरलाऽपि मर्मस्पृगस्ति । तदीयां शैलीमधिकृत्याऽऽधुनिकसंस्कृतसाहित्ये ऋषितुल्यस्य डा. राधावल्लभ-त्रिपाठीमहोदयस्य वचनानीमानि कानिचित् पठनीयानि – “विश्वासेन कथायाः काऽपि स्वीया शैली विकासं नीता, यस्यां भाषा वस्तुनः सर्वथा सख्यं समाचरित । अस्य प्रत्येकं वाक्यं प्रत्येक शब्दश्च सार्थको भवति । प्रत्येकं वाक्यं मनसि श्लिष्यति । सर्वाणि पदानि वर्णनीयं साक्षात्कारयन्ति । कथा स्वयं भारतवर्षस्य एकविंशशताब्धाः समाजं नवीनाः पद्धतीश्च सविमर्श परामृशति ।" "संस्कृतकथा इतरासु भाषासु सम्प्रति विरच्यमानाभ्यः कथाभ्यो विशिष्यते विभिद्यते तत्साम्यमावहति
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy