SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ बन्धो ! विद्वान् मालवाधिपो भोजराजः स्मर्यते । एकदाऽपगतनिद्रः संप्राप्तधन-स्वजन-विशालप्राणिवर्गः स स्वप्रासादस्य चन्द्रशालायामितस्ततोऽटति स्म । "मम समीपेऽनुकूलाः स्वजनाः सन्ति, मम निकटे विपुला सम्पत्तिरस्ति, दन्ति-तुरङ्गमानां विशालो वर्गोऽस्ति, एवं सर्वस्वमपि मम समीपे अस्ति । अहो ! मम सदृशोऽस्मिन् जगति कः सुखी स्यात् ? इति चिन्तयन् स वदति स्म चेतोहराः युवतयः स्वजनोऽनुकूल: सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः इति त्रीणि पदानि पुनः पुनर्वदति स्म, किन्तु चतुर्था पङ्क्तिर्न स्फुरति स्म । तदैवैकः स्तेनस्तत्र चौर्यार्थमागतवान् । तेनैतानि पदानि श्रुतानि । स स्तेनो विद्वान् आसीत्, ततो भयादिकं सर्वमपि विस्मृत्य स उक्तवान् - संमीलने नयनयोर्न हि किञ्चिदस्ति । चन्द्रशालायामटन् स राजा तच्छ्रुत्वैव चकितोऽभवत् । मध्यरात्रे कः स्यात् ? चौरोऽस्ति उत पण्डितः? तेन पङ्क्तिः पूर्णीकृता, ततो मन्येऽहं, एष कोऽपि पण्डितोऽस्ति, इति निर्णीय तेनोक्तं - यः कोऽपि स्यात् स मे सम्मुखमागच्छतु । तदा स स्तेनः प्रकटोऽभवत्, तेन सर्वमपि कथितम्। राजा त्वतीव प्रसन्नो जातः । राज्ञा तस्मै स्तेनाय पुष्कलं धनं दत्तम् । स्तेनः गतवानन्यत्र । 'संमीलने नयनयोर्न हि किञ्चिदस्ति' - एतद् वाक्यं राजा पुनः पुनः स्मरति । स्मरतस्तस्य मनस्यपि नश्वरताया बोधो जागृतः । चेतन ! नयनयोः मीलने सत्यस्माकं न किमप्यस्ति । यदर्थमाजीवनं रागद्वेषौ आचरितौ, तत्सर्वं धनादिकं क्षणिकं नश्वरं चाऽस्ति । केवलं धर्म एव शाश्वतोऽस्ति, धर्माराधनेन प्राप्तं पुण्यमेवाऽन्यभवे सहाऽऽगच्छति नाऽन्यत् किमपि! एक एव सुहृद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाऽन्यत् सर्वमन्यत्तु गच्छति ॥ अन्ते, सर्वकारेण क्षणिकं धनमथवा कालदेवेन क्षणिकमसारं च धनमायुश्च बलादागृह्येत, तत्पूर्वमेव यदि तदसारभूतस्य पदार्थस्य धर्मक्षेत्रे सानन्दं सदुपयोगं त्वं कुर्यास्तर्हि तत्सर्वं सफलीभवेत् । जीवनस्य सारो धर्म एव - इति ज्ञात्वा विशेषतस्त्वं धर्मं कुरु, इत्याशासे । ३४
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy