________________
यतस्तेषां चित्ते मूर्छा-आसक्तिर्नाऽऽसीत् । एषाऽनियन्त्रितासक्तिरेव क्लेशस्य विद्रोहस्य युद्धस्य च मूलमस्ति । ततो मे भगवता पुरा श्रावकधर्मनिरूपणे जीवनोपयोगिपदार्थानां परिग्रहस्य भोगोपभोगस्य च निषेधो न विहितः, किन्तु विविधनियमरूपेण प्रतिनियतमर्यादा निश्चिता । एतदेव वैशिष्ट्यं वीरभगवतः सूक्ष्मदृष्टेरस्ति । ____ एवं व्यवहारशुद्धेः साधनशुद्धेश्च विशेष आग्रहः कृतो भगवता । यत्र साधनशुद्धिरस्ति तत्र स्वयं परिग्रहस्य मर्यादाऽऽगच्छत्येव । साधनशुद्धिः स्वच्छन्दताया अधिकसञ्चयकरणवृत्तेनिरङ्कुशेच्छायाश्चोपरि प्रतिबन्धकरूपा भवति तथैव व्यापारकरणे शुभवस्तु दर्शयित्वाऽशुभं देयं, मलिनवस्तुना सह मिश्रणं करणीयं, न्यूनं देयं, विविधप्रकारं करचौर्यं करणीयं, स्वयं चौर्यं कार्यमुत चौरस्य साहाय्यं देयम् - एतत्सर्वं पापं निरोधयत्येषा साधनशुद्धिः । अत एवाऽऽदौ भगवता परिग्रहपरिमाणं साधनशुद्धिश्च प्रदर्शिता । भगवत एषा दीर्घदृष्टिः सत्यदर्शिता च वन्दनीयाऽस्ति । विभुना 'जीवानां सामान्यजीवने न काऽपि बाधा स्यात् स्वजीवनं सानन्दं निर्बन्धतया व्यतीतं भवेत् इति मनसिकृत्यैव धर्मः प्ररूपितोऽस्ति ।
एतेन ज्ञायते - जैनधर्मो न शुष्को नीरसः सङ्कुचितश्च । एष धर्मस्तु सार्वजनीनः सर्वजनोपयोगी संप्रदायनिरपेक्षश्चाऽस्ति । यः कोऽपि जन एतद्धर्ममाराध्याऽऽत्मकल्याणं कर्तुं शक्तोऽस्ति, यतोऽत्र न क्रियया ज्ञात्या सह कुलेन च सह धर्मसम्बन्धोऽपि तु मनसः शुद्ध्या सह सम्बन्धो विद्यते । एतादृशी उदारताऽसङ् कुचितता च कुत्र दृश्यते ? ___बन्धो ! साधनशुद्ध्यर्थं भगवतोक्तं - धर्मो न्यायसंपन्नवैभवेनैव (धनेनैव) करणीयः । एतत्कथनं वर्तमानकालीनसंदर्भेऽतीवोपयोग्यस्ति । अद्य धर्मक्षेत्रेष्वपि सर्वत्रो धनस्यैव प्रभुत्वं दृश्यते । धनप्रभावेन सहजधर्मस्तु ग्लान एव जातः, अथवा स त्वदृश्यत्वमेव गतवान् । धर्मस्य व्याजेनाऽनावश्यकधनव्ययो चिन्ताप्रेरकोऽस्ति । धनप्रभावेनाऽद्य प्रसिद्धिराडम्बरो दम्भः प्रतिस्पर्धाऽभिमानः प्रपञ्चश्चेत्यादिकं दूषणं धर्मक्षेत्रे प्रविष्टं जातम्। एतद्रूषणानि धर्मस्याऽङ्गरूपेणैवाऽद्य प्रतिभान्ति । शासनप्रभावनायाः कृते आडम्बर आवश्यकोऽस्ति, किन्तु तत्र विवेकोऽत्यावश्यको विद्यते । अधुना शासनप्रभावना बह्वी भवति । तत्र स्वप्रसिद्धिर्महत्त्वाकाङ्क्षाऽभिमानः शासनमालिन्यं चेति दुर्गुणा अपि बहवो दृश्यन्ते, किन्तु विवेकस्य त्वनुपस्थितिरेवाऽस्ति । यदि भगवत्कथनं सर्वैः स्वीकृतं स्यात्तहि धर्मस्यैतादृश्यवमगतिस्तु नैव स्यात् । अस्माभिरनीतिर्नाऽऽचरणीया, साधनशुद्धिः करणीया, परिग्रहो न विधेयश्चेति वीरकथनं न स्वीकृतं न चाऽऽचरितं किन्तु सर्वकारस्य वचनमनिच्छयाऽप्यङ्गीकृतमेव, तथाऽप्येष धर्मो न प्रोच्यते । घटनैषा वैराग्यप्रेरिका बोधदायिका चाऽस्ति । यदि मनो जागृतं स्यात्तहि संसारस्य पदार्थस्य च क्षणिकताया अनित्यतायाश्च भानं भवत्येव । पडिक्तरेका स्मर्यते -
यत् प्रातस्तन्न मध्याह्ने । __ अस्मिन्नसारे संसारे धर्ममृते न किमपि सारभूतं शाश्वतं नित्यं चाऽस्ति । तथाऽप्येष जीवो धन-प्रतिष्ठापरिवारादिप्राप्त्याऽभिमानं करोति । तदभिमानवशेन तस्य वर्तनं व्यवहारश्चाऽप्यौद्धत्ययुतौ भवतः । एतत्सर्वमनुचितमस्ति । यदि धनेनोन्मत्तीभूता अनेके राजानः श्रेष्ठिनश्चाऽपि यमदेवेन वशीकृताः स्युस्तहि भो! अस्माकं किं मूल्यम् ?
३३