________________
धनोपार्जनार्थमेव जीवनं गमयन्ति । धनादिषु प्रगाढासक्तिनॊचिता । अर्धमामाचर्य प्राप्तेषु धनादिषु अधर्मरूपाऽऽसक्तिस्तु महानर्थरूपा ज्ञेया । एतत्सर्वं ज्ञात्वाऽपि जीवैः जीवनस्याऽऽसाररूपस्य क्षणिकवस्तुन एव विशेषासक्तिविधीयते । 'सर्वमपि क्षणिकमनित्यं चाऽस्ति' इति जीवैर्बहुशः श्रुतं पठितं ज्ञातं च, तथाऽप्यनादिकालस्य तीव्रवासनावशेन जीवैः कथनमेतन्न कदाऽपि स्वीकृतम् । देव-गुरुपूजनं, तदुपदेशं च विहायाऽऽजीवनमादिनं च तत्तद्वयक्तेश्च आसक्तिरेव कृता । एवमेव दुर्लभं जीवनं व्यतीतमस्ति । ___जीवैर्येषु येषु वस्त्वादिष्वासक्तिः क्रियते तानि सर्वाणि कियन्ति क्षणिकान्यनित्यानि चेति सर्वैरपि जीवैरनुभूतानि खलु । इदानीं 'मोदी'महोदयेन ५००-१००० इति चलद्रूप्यकाणामुपरि प्रतिबन्धः कृतः। अद्याऽनेकेषां जनानां गृहं कर्गजेन भृतं जातम् । अनेकेषां पीडितजनानां दुःखिजनानां परवशजनानां च दीनतां परवशतां च ज्ञात्वाऽपि तेषां वञ्चन-शोषण-चौर्य-अनीत्यादिहीनकृत्यं च विधाय प्राप्तधनाः श्रेष्ठिनोऽद्य किङ्करा जाताः । अनेके धनासक्ता धनाढ्याश्च ग्लानवदनाः सञ्जाताः । धनमेव सर्वस्वं जीवनसारं च, धनेनैव सर्वं प्राप्यते - इति मिथ्याभ्रमे रममाणैः सर्वैर्जीवैः 'जीवनस्य कः सारः' इति ज्ञातमेव । मम भगवता पुरा यदपि कथितं तत् सर्वमपि सत्यं यथार्थं चाऽस्ति, तदद्य सर्वैरपि अनुभूतम् । अद्य महावीरविभोः र्दूरदर्शिता स्मृतिपथमायाति । तेन भगवता तस्मिन् काले प्ररूपिताः सिद्धान्तः वर्तमानकाले कियन्त उपयुक्ताः सन्ति, इति चिन्तनीयमस्ति।
बन्धो ! गृहसुखं परिवारसुखं राजसुखं चेति सर्वमपि संसारसुखं संत्यज्य वर्धमानेन यौवनकाले संयमः (श्रमणधर्मः) स्वीकृतः । एकाक्येव भयङ्करे गहने च वने गतवान् । तत्र सुदुस्त्यजं शरीरमोहमपि विहायाऽऽत्मसाधना कृता । भगवता घोरातिघोरोपसर्गाः सोढाः, आचरितं तीव्र तपश्च । एवं विहरता भगवता मोहनीयादिकर्मचतुष्टयं विनाश्याऽनन्तं केवलज्ञानं प्राप्तम् । तदा देवैः रत्नसुवर्णरूप्यमये विरचिते समवसरणे भगवता देशना दत्ता।
वीरविभुना द्विधा धर्मो निरूपितः । तत्राऽऽदौ सर्वविरतिधर्मः (श्रमणधर्मः) प्ररूपितः । यो जीवस्तद्धर्म ग्रहीतुमशक्तोऽस्ति तदर्थं देशविरतिधर्मः (श्रावकधर्मः) कथितः । तत्र कथितं - पदार्थानामुपभोगः संग्रहश्च संसारिजीवानां कृते आवश्यकोऽस्ति, तदर्थं च धन-साधनादिकमप्यावश्यकमस्ति । ततो जीवः पदार्थानामुपभोगं संग्रहं च करोत्येव, तत्र न दोषः, किन्तु पदार्थानामुपभोगस्य प्रगाढवासनाऽनियन्त्रितासक्तिश्च महापापरूपाऽस्ति, इति ।
शास्त्रेषु धन-वस्तूनां संग्रहो न परिग्रहः कथितः, किन्तु तेषां पदार्थानामुपरि मूर्छा-आसक्तिः परिग्रहः प्रोच्यते।
श्रीउमास्वाचिवाचकेन तत्त्वार्थसूत्रे उक्तम् - मू» परिग्रहः ।
भोः ! वीरभगवतः कामदेवादयो दश श्रावका आसन्, इत्युक्तं शास्त्रेषु । तत्र कृतं तेषां समृद्धीनां वर्णनं ज्ञातमेव त्वया । परिग्रहदृष्ट्या तु ते सर्वेऽपि महापरिग्रहधारिण आसन्, तथाऽपि ते महाश्रावका उच्यन्ते ।
३२