SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अस्माकं व्यवहार-स्वभाव-मनोवचोवपुर्योगादीनां शुद्धिः करणीया, एष एव सारोऽस्ति जीवनस्य । भो! धनस्य परिवारस्याऽद्यतनसाधनस्य च वृद्धिः, प्रतिष्ठायाश्च प्राप्तिः सरला शक्या चाऽस्ति, किन्तु नैष जीवनस्य सारोऽस्ति । एतादृशी भौतिकवृद्धिस्तु कुख्यात दाउदे'नाऽपि प्राप्ता, एवमने कैर्जनै राजकीयनेतृभिश्चाऽपि संप्राप्ता। किं तेषां जीवनं सफलमुच्यते ? नैव । बाह्य-भौतिकवृद्ध्या न कदाऽपि जीवनं सफलं भवति । एवं यया यया वृद्ध्याऽऽत्महानिः सद्गुणहासो दुर्गुणवृद्धिश्च भवेत्, सा कथं वृद्धिः कथ्यते? किञ्च, अनाथजनानां पीडितजनानां च साहाय्यं करणीयम्, तेषां दुःखं दूरीकर्तुं प्रयतनीयम्, केषाञ्चिदपि जनां कस्मिमन्नपि कार्ये विघ्नो न करणीयः, सर्वेषामपि शुभार्थं मङ्गलार्थं चैव प्रयत्नः करणीयः, इत्येव जीवनस्य सारोऽस्ति, एतदेव जीवनस्य साफल्यं च ज्ञेयम् । भगवदृष्ट्या त्वेष एव श्रेष्ठो धर्मोऽस्ति । लोकेऽपि परोपकारो धर्मः, पीरपीडनं चाऽधर्मः प्रोच्यते । वस्तुतो धर्म एव जीवनस्य सारो न त्वधर्मः, यतो धर्मेणैव स्वभावव्यवहारादिशुद्धिरवाप्यते। ____ अस्माभिः किं क्रियते - धर्म उताऽधर्म: ? धर्मो धर्मस्थानके करणीयः पदार्थोऽस्ति, इति भ्रमवशाद् धर्मस्थानके यत्किमपि विधीयते तद् धर्मत्वेन कथ्यते । ततोऽस्माकं जीवनेऽधर्म एव वृद्धिङ्गतो जातः । वर्तमानकालीनां परिस्थितिं पश्य - जनो धर्मस्थानके यावत्कालं वसेत् तावत् स धर्मं कुर्यात्, किन्तु बहिर्गत्वा धर्मेण सह तस्य न कोऽपि सम्बन्धोऽस्ति, तत्र तु किमपि कर्तुं शक्तः, इति प्रतिभासते । अद्य धर्मस्थानके बहुकालं वसन् सदा धर्मक्रियायां रममाणो जनश्चाऽपि व्यवहारेऽनीति प्रपञ्चमसत्यभाषणं वञ्चनं शोषणं लुण्टनं परपीडनमतिपरिग्रहमप्रामाणिकतां चेत्यादिकं सर्वमपि सानन्दं सहृदयं च करोति, तथाऽपि स जनो धर्मी पुण्यात्मा चोच्यते । यतो धर्मस्थानके स विशेषधर्मक्रियाकरत्वेन समाजे प्रसिद्धो जातो धर्मित्वेन । भो ! धर्मस्य सम्बन्धो न धर्मक्रियया सह, अपि तु मनसः शुद्धपरिणत्या, निर्मलाध्यवसायेन, शुभभावनया च सहाऽस्ति । धर्मो न मन्दिरे, उपाश्रये, तपसि, क्रियायां चाऽस्ति, किन्तु जीवनशुद्धौ व्यवहारशुद्धौ वर्तनशुद्धौ स्वभावशुद्धौ च विद्यते । धर्मस्तु जीवनस्य प्रत्येकस्मिन् व्यवहारे आचरणीयोऽस्ति । अत एव मयोक्तम् - धर्म एव जीवनस्य सारः।। 'आल्बर्ट स्वाइट्झर' महोदयेन प्रोक्तम् - यो धर्मो जीवनं प्रति समादरं न कुर्यात् स धर्म एव नास्ति । नेपोलियन बोनापार्टः उवाच - जनो न यं कमपि धर्मं समाचरेत्, तथाऽपि तस्य जीवनं नीतिमयं संभवेत्। यो जनो नीति-प्रामाणिकता-सारल्यादिगुणान् मानवतां चाऽङ्गीकुर्यात्, स न कदाऽप्यधार्मिको भवेत् । चेतन ! मानवीयगुणानां विकासं विनाऽऽत्मिकगुणविकासरूपो धर्म एव न संभवति । भगवता कृतायाः - 'शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखीभवन्तु लोकाः ॥' इति प्रार्थनायाः कोऽर्थः ? एतया प्रार्थनयाऽपि ज्ञायते धर्मः कः - इति । वीरप्रभुणा स्वजीवने प्रथम मानवीयगुणानामेवाऽऽलम्बनं कृतम् । तथाऽपि बहुशो जीवाः शोषण-वञ्चना-अनीति-परिग्रहादिकं विधाय
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy