________________
पत्रम्
पत्रम्
- मुनिधर्मकीर्तिविजयः
॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे ।
पूज्यपाद शासनसम्राट्-गुरुभगवतां प्रबलपुण्यपुञ्जेन पवित्रतायां मधुपुरी(महुवा)नगर्यां सानन्दं चातुर्मासं समाप्य सूरतनगरं प्रति विहृतवन्तो वयं सर्वेऽपि।
बन्धो ! किं नाम जीवनम् ? जीवनस्य साफल्यं किम् ? - इत्यादयः प्रश्ना निरन्तरं मनस्युद्भवन्ति । प्रभाते सति उत्थितं, स्नानं कृतं, क्षणं प्रभुनाम स्मृतं, आदिनं वाणिज्यक्षेत्रे प्रसन्नमनसा सहृदयं च पापं सेवितं, आपणेऽपि अज्ञजनैः सह वञ्चनाऽनीतिश्चाऽऽचरिता, अनकैर्जनैः क्लेशो विहितः, भोजनं कृतं, रजन्यां सपरिवारं क्रीडाङ्गणे गतम्, अन्ते, दूरदर्शनं दृष्ट्वा शयनं कृतं च; प्राय एषाऽस्ति जीवानां दिनचर्या ।
भो ! धनस्योपार्जनं करणीयम् आदिनं चाऽऽनन्दः करणीयः - किमेतदेव जीवनस्य साफल्यं? जीवनस्य सार एष एव? .
नैषः जीवनसारः । परमेश्वरानुग्रहादतिदुर्लभो मानवभवः प्राप्तो जीवेन । प्राप्तस्य दुर्लभमानवभवस्य सदुपयोगः कीदृशः कृतो जीवेन ? एषा धनस्य बन्धुवर्गस्य चाऽऽसक्तिस्त्वन्यभवेऽपि जीवेन कृता । यदि नाऽत्र मानवभवस्य सदुपयोगः क्रियते तर्हि जीवेनाऽनन्तकालपर्यन्तं दुर्गतिषु भ्रामं भ्राममेषाऽऽसक्तिः सदाऽऽसेवनीयैव । तत्र दुःखं विना न किमपि प्राप्यते जीवेन । तस्मिन् काले तत्र न कोऽपि त्वां रक्षिष्यत्युपदेक्ष्यति वा । अत एवाऽस्मिन् भवे जीवनस्य सारः कः? इति सूक्ष्मधिया चिन्तनीयम् ।
चेतन ! एतावद्वर्षाणामनन्तरमपि किं स्वभावस्य परिवर्तनं जातम् ? प्रतिपदमावेशक्लेशमनुसरता त्वया काचिदपि शान्तिः प्राप्ता? सर्वदा प्रपञ्चकरणे एव रममाणे मनसि सारल्यं जागृतं किम् ? प्रतिक्षणमन्येषां हीनवचनप्रयोगेऽशुभकरणे च व्याप्रियमाणं वचनं वपुश्च संमाजितं किम् ? अनेकदुष्टविकल्प-दुर्ध्यानैः परिवेष्टितचित्तस्य शुद्धिर्जाता काचित् ? तव मुखान्निर्गच्छन्ति वचनानि कोमलानि सन्ति उत कठोराणि ?
३०