Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 39
________________ पत्रम् पत्रम् - मुनिधर्मकीर्तिविजयः ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । तत्राऽप्येवं स्यादित्याशासे । पूज्यपाद शासनसम्राट्-गुरुभगवतां प्रबलपुण्यपुञ्जेन पवित्रतायां मधुपुरी(महुवा)नगर्यां सानन्दं चातुर्मासं समाप्य सूरतनगरं प्रति विहृतवन्तो वयं सर्वेऽपि। बन्धो ! किं नाम जीवनम् ? जीवनस्य साफल्यं किम् ? - इत्यादयः प्रश्ना निरन्तरं मनस्युद्भवन्ति । प्रभाते सति उत्थितं, स्नानं कृतं, क्षणं प्रभुनाम स्मृतं, आदिनं वाणिज्यक्षेत्रे प्रसन्नमनसा सहृदयं च पापं सेवितं, आपणेऽपि अज्ञजनैः सह वञ्चनाऽनीतिश्चाऽऽचरिता, अनकैर्जनैः क्लेशो विहितः, भोजनं कृतं, रजन्यां सपरिवारं क्रीडाङ्गणे गतम्, अन्ते, दूरदर्शनं दृष्ट्वा शयनं कृतं च; प्राय एषाऽस्ति जीवानां दिनचर्या । भो ! धनस्योपार्जनं करणीयम् आदिनं चाऽऽनन्दः करणीयः - किमेतदेव जीवनस्य साफल्यं? जीवनस्य सार एष एव? . नैषः जीवनसारः । परमेश्वरानुग्रहादतिदुर्लभो मानवभवः प्राप्तो जीवेन । प्राप्तस्य दुर्लभमानवभवस्य सदुपयोगः कीदृशः कृतो जीवेन ? एषा धनस्य बन्धुवर्गस्य चाऽऽसक्तिस्त्वन्यभवेऽपि जीवेन कृता । यदि नाऽत्र मानवभवस्य सदुपयोगः क्रियते तर्हि जीवेनाऽनन्तकालपर्यन्तं दुर्गतिषु भ्रामं भ्राममेषाऽऽसक्तिः सदाऽऽसेवनीयैव । तत्र दुःखं विना न किमपि प्राप्यते जीवेन । तस्मिन् काले तत्र न कोऽपि त्वां रक्षिष्यत्युपदेक्ष्यति वा । अत एवाऽस्मिन् भवे जीवनस्य सारः कः? इति सूक्ष्मधिया चिन्तनीयम् । चेतन ! एतावद्वर्षाणामनन्तरमपि किं स्वभावस्य परिवर्तनं जातम् ? प्रतिपदमावेशक्लेशमनुसरता त्वया काचिदपि शान्तिः प्राप्ता? सर्वदा प्रपञ्चकरणे एव रममाणे मनसि सारल्यं जागृतं किम् ? प्रतिक्षणमन्येषां हीनवचनप्रयोगेऽशुभकरणे च व्याप्रियमाणं वचनं वपुश्च संमाजितं किम् ? अनेकदुष्टविकल्प-दुर्ध्यानैः परिवेष्टितचित्तस्य शुद्धिर्जाता काचित् ? तव मुखान्निर्गच्छन्ति वचनानि कोमलानि सन्ति उत कठोराणि ? ३०

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98