Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 25
________________ आस्वादः भारतीयसंस्कृतौ यज्ञो वै श्रेष्ठतमं कर्म - डो. रामकिशोरमिश्रः भारतमेकं बहुविशालं राष्ट्रमस्ति । एतदस्माकं भारतं काश्मीरादण्डमान-निकोवारद्वीपसमूहपर्यन्तं विस्तृतं वर्तते । अत्र बहुजातीया विभिन्नधार्मिकाश्च जना निवसन्ति । भारतीयसंस्कृतिविश्वस्य समस्तसंस्कृतिषु प्राचीनतमाऽस्ति । मनुरादिसृष्टिजनको बभूव । मनोरपत्यं पुमान् इति मानव इति व्युत्पत्त्या जगतः सर्वे मानवा मनोः सन्ततयः सन्ति । मनोरुत्पत्तिमूलस्थली भारतभूमिरस्ति । अस्मादेव भारतवर्षादत्र समस्तपृथिव्यां मानवसृष्टिविस्तारोऽभवत् । अतो मनुस्मृतिकारेण लिखितम् - एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ मनुस्मृतिः - २/२० . भारतीयसंस्कृतेः स्वरूपम् संस्करणं परिष्करणं दुरितव्यपोहनं दुर्भावदहनं च संस्कृतिरिति । जीवनोन्नतिसाधिनी, सद्गुणसंग्राहिणी, सत्पथगामिनी, ज्ञानज्योतिःप्रचारिणी संस्कृतिरस्माकं जीवनस्याऽन्तरङ्गे स्वरूपं प्रकाशयति । मननं, चिन्तनं, दार्शनिकं मनोवैज्ञानिकमन्वेषणं विश्लेषणं च, जीवनोत्कर्षाधायकतत्त्वानां गवेषणं, कर्तव्याकर्तव्यविवेचनं समष्टेय॑ष्टेश्च स्वरूपं, जीवनस्योद्देश्यं लक्ष्यं च, लोकव्यवस्थितेः साधनानि, प्रकृतिपुरुषयोर्भेदाभेदविवेचनं सर्वमेतत्संस्कृत्या संगृह्यते । सृष्टेः सञ्चालनाय संरक्षणाय समुत्थानाय च मनुना वेदाधारेण चतुर्णां वर्णानामाश्रमानां च व्यवस्था कृता । तस्या व्यवस्थाया अनुसारेण सदाचरणाभावादद्य पतनं भवति । भाषा-वेषाहार-संस्काराणां समुदायः संस्कृतिः कथ्यते । संस्कार एव संस्कृतिरिति । संस्कृतिः संस्कृताश्रया ईदृशः कश्चिदस्ति विषयः, य: संस्कृतौ न गृह्यते ? वेदेषु धर्मसूत्रेषूपनिषत्सु दर्शनेषु स्मृतिषु च

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98