Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 27
________________ दर्शनम् आर्यसत्यानां पर्यालोचनम् हिराकुमारी झा सर्वमपि जगद् दुःखं दुःखसाधनं दुःखायतनमित्यनुभूय दुःखपङ्कनिमग्नानां प्राणिनामात्मनश्च दुःखं निरोद्धुकामः सिद्धार्थगौतमस्तन्निरोधमार्गं गवेषितवान् । कालान्तरे च बुद्धनाम्ना प्रसिद्धः सन् भिक्षूणां वैराग्याय सत्पथप्रदर्शनाय च कानिचिद् दार्शनिकतत्त्वानि काँश्चन च धार्मिकतत्त्वविशेषानुपदिदेश। स एवोपदेशो नागार्जुनाऽसङ्गबन्धु-धर्मकीर्तिप्रभृतिभिर्विद्वद्भिायप्रमाणाभ्यां परीक्षितः प्रवर्धितः पश्चाच्च संसारे सौगतदर्शननाम्ना प्रसिद्धो जातः । एतद्दर्शनसमानकालिकजैनदर्शनेऽपि मतस्याऽस्य विशेषतः खण्डनाय पर्यालोचनं दरीदृश्यते । तत्र बौद्धदर्शनपरिचयोपक्रमे षड्दर्शनसमुच्चयात्मके ग्रन्थे आचार्यहरिभद्रसूरय इत्थं प्रतिपादयन्ति - तत्र बौद्धमते तावत् देवता सुगतः किल। . चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ___(षड्दर्शनसमुच्चयः : ४) तत्र बुद्धदर्शने भगवान् सुगतो देवः, सर्वेषामपि पदार्थानां तत्त्वज्ञानस्योपयोगितया चर्तुषु भागेषु विभज्य तदानीमुपदिष्टवान् भिक्षून् । सर्वमपि जगत् दुःखं दुःखसाधनं दुःखायतनमिति त्रिधा विभज्य जगतो दुःखात्मकतया हेयत्वं प्रतिपाद्य ततो जगन्निरोधाय तत्त्वज्ञानं सम्पादनीयमिति प्रोक्तवान् । तत्त्वानि च आर्यसत्यानि । एवं च विमलेन तत्त्वज्ञानेन दुःखसाधनस्य निरोधानन्तरं विमलज्ञानात्मको मोक्षो जायते । उक्तं च न्यायतन्त्रेऽपि - ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् । अभ्यासात् पक्वविज्ञानः कैवल्यं लभते नरः ॥ ___ (तर्कसङ्ग्रहः : पृ. १८८) एवं चाऽऽर्यसत्यान्यपि परम्परया मोक्षोपयोगितया ज्ञातव्यानि, तानि च दुःख-दुःखसमुदय-निरोधमार्गभेदात् चत्वारि सन्ति । तत्राऽऽदौ दुःखतत्त्वं व्याचिख्यासुराह -

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98