Book Title: Nandanvan Kalpataru 2017 06 SrNo 38
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ ३.८ सम्यक्समाधिः समाधिस्तत्र चितैकाग्रता । यदाऽष्टाङ्गकर्मणां निरन्तरेणाऽऽसेवनं क्रियते तदाऽनासक्ते चेतसि वैराग्यधारा जायते, तदनन्तरं मनोलयः संपद्यते । तत्र शीलेन कायशुद्धिः, समाधिना चित्तशुद्धिः, शुद्धे चेतसि ज्ञानप्राप्तिः । मार्गनिरोधयोर्लक्षणानि - क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥ (विवेकविलासः) ४. निरोधः चित्तस्य निःक्लेशावस्थारूपो निरोधो मुक्तिनिगद्यते । हेयो ह्यर्थो हातुमिष्यत इति वदता हानापरपर्यायो जन्माभावो दुःखाभावो नैरात्म्यभावनातो ज्ञानसंतानोच्छेदो वा मोक्ष इति फलितार्थः । निष्कर्षः सर्वस्य संसारस्य दुःखात्मकत्वं सर्वतीर्थंकरसंमतत्वात् तन्निवृत्त्यर्थिनां तेषां तन्निवृत्त्युपाये प्रवृत्तिर्दृश्यते । तत्र भगवतो बुद्धस्य समये विशेषतो वेदवासनावासितचित्ता अनादिनिधनमपौरुषेयं किमपि शब्दप्रमाणं वेदलक्षणं प्राधान्येन स्वीकृत्य वेदानुकूलतर्कप्रमाणमाख्यापयन्तः प्रवर्तन्ते स्म । किन्तु भगवता तथागतेन तर्कशलाकाञ्जनेन सिद्धं वेदविरुद्धसिद्धान्तमपि प्रतिपाद्याऽवाचि - परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवाद् । तथागतेन प्रतिपादितानि तत्त्वानि न श्रद्धेयानि अपि तु परीक्ष्यानुभवितव्यानि इति नवीनपरीक्षामार्गोऽप्युपदिष्टः । अत्र प्रतिपादितानि आर्यतत्त्वानि सर्वानुभववगम्यानि, अतो दुःख-दुःखसमुदयनिरोध-मार्गाश्चेति तत्त्वानामन्वेषणं दुःखनिवृत्तये कर्तव्यमिति फलितार्थः । सन्दर्भग्रन्थाः भट्टः, अन्नम्, तर्कसङ्ग्रहः (वि. सं. २०४५) तृतीय संस्क., वाराणसी, वाणीविलासप्रकाशनम् । माधवाचार्यः, सर्वदर्शनसङ्ग्रहः (सन्. १९८४), वाराणसी, चौखम्बाविद्याभवनम् । सूरिः, हरिभद्रः, षड्दर्शनसमुच्चयः (१९७०), संपा. महेन्द्रकुमार जैन, वाराणसी भारतीयज्ञानपीठः । - जनकहजारीविद्यापीठम्

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98