SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ३.८ सम्यक्समाधिः समाधिस्तत्र चितैकाग्रता । यदाऽष्टाङ्गकर्मणां निरन्तरेणाऽऽसेवनं क्रियते तदाऽनासक्ते चेतसि वैराग्यधारा जायते, तदनन्तरं मनोलयः संपद्यते । तत्र शीलेन कायशुद्धिः, समाधिना चित्तशुद्धिः, शुद्धे चेतसि ज्ञानप्राप्तिः । मार्गनिरोधयोर्लक्षणानि - क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥ (विवेकविलासः) ४. निरोधः चित्तस्य निःक्लेशावस्थारूपो निरोधो मुक्तिनिगद्यते । हेयो ह्यर्थो हातुमिष्यत इति वदता हानापरपर्यायो जन्माभावो दुःखाभावो नैरात्म्यभावनातो ज्ञानसंतानोच्छेदो वा मोक्ष इति फलितार्थः । निष्कर्षः सर्वस्य संसारस्य दुःखात्मकत्वं सर्वतीर्थंकरसंमतत्वात् तन्निवृत्त्यर्थिनां तेषां तन्निवृत्त्युपाये प्रवृत्तिर्दृश्यते । तत्र भगवतो बुद्धस्य समये विशेषतो वेदवासनावासितचित्ता अनादिनिधनमपौरुषेयं किमपि शब्दप्रमाणं वेदलक्षणं प्राधान्येन स्वीकृत्य वेदानुकूलतर्कप्रमाणमाख्यापयन्तः प्रवर्तन्ते स्म । किन्तु भगवता तथागतेन तर्कशलाकाञ्जनेन सिद्धं वेदविरुद्धसिद्धान्तमपि प्रतिपाद्याऽवाचि - परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवाद् । तथागतेन प्रतिपादितानि तत्त्वानि न श्रद्धेयानि अपि तु परीक्ष्यानुभवितव्यानि इति नवीनपरीक्षामार्गोऽप्युपदिष्टः । अत्र प्रतिपादितानि आर्यतत्त्वानि सर्वानुभववगम्यानि, अतो दुःख-दुःखसमुदयनिरोध-मार्गाश्चेति तत्त्वानामन्वेषणं दुःखनिवृत्तये कर्तव्यमिति फलितार्थः । सन्दर्भग्रन्थाः भट्टः, अन्नम्, तर्कसङ्ग्रहः (वि. सं. २०४५) तृतीय संस्क., वाराणसी, वाणीविलासप्रकाशनम् । माधवाचार्यः, सर्वदर्शनसङ्ग्रहः (सन्. १९८४), वाराणसी, चौखम्बाविद्याभवनम् । सूरिः, हरिभद्रः, षड्दर्शनसमुच्चयः (१९७०), संपा. महेन्द्रकुमार जैन, वाराणसी भारतीयज्ञानपीठः । - जनकहजारीविद्यापीठम्
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy