SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ बीजादङ्कुरः, अङ्कुरात्काण्डं, काण्डान्नलः, नालाद् गर्भः, ततः शूकं, ततः पुष्पं, ततः फलम् । न चैते चेतनाः, न कश्चिच्चेतनावानीश्वरः अभ्युपेयः । ३. मार्गः ____ संसारप्रवृत्तिनिमित्तभूतौ दुःखदुःखसमुदयौ च निरूप्येदानी मार्गतत्त्वं निरूपयति । तत्र धर्मानुकूलतत्त्वज्ञानोपयोगिभूताचारो मार्ग उच्यते । स च मार्गोऽष्टविधः - सम्यग्दृष्टिः, सम्यग्वाग, सम्यक्कर्मान्तः, सम्यक्सङ्कल्पः, सम्यगाजीवनम्, सम्यग्व्यवसायः, सम्यक्स्मृतिः, सम्यक्समाधिश्चेति मार्गोऽयमष्टाङ्गिकमार्गशब्देन उच्यते । ३.१ सम्यग्दृष्टिः तत्र कुशलाकुशलकर्मज्ञानवान् । तत्र कुशलाकुशलकर्माणि च कायिकवाचिकमानसिकभेदात् त्रिविधानि भवन्ति । तत्र कायिककुशलर्कमाणि अहिंसाऽस्तेव्यभिचारादयः, कायिकाकुशलकर्माणि हिंसा-चौर्य-व्यभिचाराः । वाचिककुशलकर्माणि अप्रलापामिथ्याभाषणापैशुन्याकटुवचनानि, वाचिकाकुशलकर्माणि प्रलापमिथ्याभाषण-पैशुन्य-कटुवचनानि । मानसिककुशलकर्माणि अलोभाप्रतिहिंसामिथ्यादृष्टयः । मानसिकाकुशलकर्माणि लोभ-प्रतिहिंसा-मिथ्यादष्टयः । ३.२ सम्यक्संकल्पः सर्वभूतेषु अद्रोहभावनं सर्वविषयस्य च निष्कामता मनसो व्यापारः सम्यक्संकल्पो भण्यते । ३.३ सम्यग्वचनम् तत्र व्यवहारे सति आवश्यके सत्यं प्रियं हितं मितं च वक्तव्यम् । ३.४ सम्यक्कर्मान्तः तत्र शास्त्रप्रतिपादितपञ्चशीलादिकर्मणामनुष्ठानं सम्यक्कर्मान्त उच्यते । तत्र अहिंसा-सत्यास्तेयब्रह्मचर्याणामनुष्ठानं सुरापरित्यागश्च निगद्यते । अन्यानि च पञ्च कर्माणि भगवता बुद्धेनोपदिष्टानिअपराह्नभोजनपरित्यागः, संगीतत्यागः, अमूल्यशय्यात्यागः, मालाधारणत्यागश्चेत्यादीनि । ३.५ सम्यगाजीवनम् जीविकार्थे सद्वृत्तीनां ग्रहणम् । ३.६ सम्यग्व्यवसायः ____ सत्प्रयत्नः, सत्कर्मणा पदार्थाभिलषितुरिच्छा। ३.७ सम्यक्स्मृतिः सम्यक्स्मृतिरत्र यथार्थानुभवस्य स्मरणम् । चत्वारि स्मृतिप्रस्थानानि - कायानुपश्यत्ता, वेदनानुपश्यत्ता, चित्तानुपश्यत्ता, धर्मानुपश्यत्ता । तत्र रुधिरमांसास्थिमलमूत्रादिमयं कायं स्मरतो नाऽऽसक्तिः । एवं सुखदुःखादिरूपवेदनामनुस्मरतस्तत्र नाऽऽसक्तिः । २१
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy