________________
१.४ संस्कारस्कन्धः
पुण्यापुण्यादिधर्मसमुदाय: संस्कारस्कन्धः । सादृश्यादृष्टचिन्तनादिसहकारिकारणोद्बोधकसंस्कारात् पूर्वानुभूतविषयस्य स्मृतिः समुत्पद्यते । १.५ रूपस्कन्धः ___ तत्र श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि पञ्चेन्द्रियाणि तेषां शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः अविज्ञप्तिश्च । अत्राऽविज्ञप्तिपदेन शरीरं ग्राह्यम् । रूप्यन्ते प्राप्यन्ते विषया एभिः, रूप्यन्ते वा रूपाणि इति व्युत्पत्त्या रूपपदं शरीरेन्द्रियविषयपरम् । बौद्धमते पृथिव्यप्तेजोवायुगगनादीनां रूपस्कन्ध एवाऽन्तर्भावः । २. दुःखसमुदयः दुःखानि पञ्चविधानीति प्रपञ्च्य तदनन्तरं तत्कारणीभूतं दुःखसमुदयतत्त्वं किमिति जिज्ञासायामुच्यते -
समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयभावाख्यः समुदयः स उदाहृतः ॥
(षड्दर्शनसमुच्चयः : ६) यतो रागद्वेषलोभादिसमस्तदोषानामखिलो गणः समुदेति स दुःखसमुदयः कथितः । स च दुःखसमुदयः द्विविधः - हेतूपनिबद्धः प्रत्ययोपनिबद्धश्च । २.१ प्रत्ययोपनिबद्धः
तत्र प्रथमस्य प्रत्ययोपपत्तिनिबन्धसमुदयस्य लक्षणसङ्ग्राहकसूत्रं प्रदर्शयति सर्वदर्शनसङ्ग्रहे इदं प्रत्ययलक्षणम् । इदं कार्यं येऽन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषां हेतूनां भावः प्रत्ययत्वं कारणसमुदयोपस्थितिः । अत्रेदं तात्पर्यम् - यथा नैयायिकादयः - कस्यचिद् चेतनावत ईश्वरस्य ज्ञानचिकीर्षाप्रयत्नं विना सकलकार्योत्पादजननसामग्रीसत्त्वेऽपि स्वतः कार्योत्पत्तिर्न दृश्यते अत ईशस्याऽपि असाधारणनिमित्तहेतुत्वमकामेनाऽपि स्वीकर्तव्यम् इति वदन्ति । तन्मतनिरसनाय प्रोक्तमिदम् - पृथिव्यादिधातूनां सन्निधानाद् बीजादङ्कुरोत्पत्तिसंभवे न हि कस्यचिद् चेतनावत ईश्वरस्य परिकल्पना । यथा बीजस्य पृथिव्यादिधातूनां षण्णां समन्वयात् अङ्कुरः परिवर्तते । तत्र क्रमो यथा - पृथिवी अङ्कुरस्य काठिन्यं जनयति, अब्धातुः स्नेहं रसं च जनयति, तेजो रूपमौष्ण्यं च समुत्पादयति, वायुः स्पर्शनं चलनं च, आकाशपदार्थः अवकाशं शब्दं च जनयति । २.२ हेतूपनिबन्धनः
हेतूपनिबन्धनस्य संग्राहकं सूत्रमिदम् - उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता च प्रतीत्यसमुत्पादानुलोमता - (सर्वदर्शनसङ्ग्रहः) । बौद्धानां मते धर्माणां कार्यकारणरूपानां या धर्मता कार्यत्वकारणत्वरूपा एषा उत्पादादनुत्पादाद्वा स्थिता । यत्सत्त्वे यदुत्पद्यते यदभावे यन्नोपपद्यते तत्तस्य कारणं भवति । कार्यस्य कारणानतिक्रमेण स्थितिः । धर्मस्य कारणस्य कार्य प्रति नियामकता इति सिद्धान्तात् चेतनामन्तरेणैव सर्वत्र कार्यकारणभावः सङ्गच्छते । प्रतीत्यसमुत्पादस्य हेतूपनिबन्धनो यथा