________________
१. दुःखम्
दुःखं संसारिणः स्कन्धाः ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥
(षड्दर्शनसमुच्चयः : ५) ___ संसरन्ति स्थानात् स्थानान्तरं व्रजन्ति मृगमदवासनावासितवसन इव भवाद् भवान्तरं व्रजन्त्येवंशीलाः संसारिणः स्कन्धाः सचेतना अचेतना: वा परमाणुपुञ्जविशेषाः पञ्चस्कन्धात्मिकाः सन्ति, यथा विज्ञानस्कन्धः, वेदनास्कन्धः, संस्कारस्कन्धः, संज्ञास्कन्धः, रूपस्कन्धश्चेति । १.१ विज्ञानस्कन्धः
तत्र सर्वेषां प्रतिकूलवेदनविषयत्वोपलक्षितं विज्ञानात्मकं दुःखं प्रथमम् । रूपरसादिनिर्विषयकज्ञानं विज्ञानस्कन्धः । निर्विकल्पकज्ञानस्य स्वरूपमेव उच्यते -
- अस्ति ह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ - मीमांसा एवं च सर्वमपि बाह्याभ्यन्तरज्ञानं विज्ञानस्कन्धः । तत्र बौद्धा द्विविधं विज्ञानं स्वीकुर्वन्ति - प्रवृत्तिविज्ञानमालयविज्ञानं च । पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञाने हेतुत्वात् सुषुप्त्यवस्थायां चाऽऽलयविज्ञानधारा निराबाधा, प्रवृत्तिविज्ञानस्यैव प्रवाहः संसारः । प्रवृत्तिविज्ञानं घटादिविषयभेदेन भिन्नत्वादनेकविधम् इदमित्याकारकम् । अहमित्याकारकं सततानुवर्तमानमालयविज्ञानम् । द्विविधविज्ञानयोरनवरतप्रवाहो विज्ञानस्कन्ध इति फलितं भवति । १.२ वेदनास्कन्धः
सुखा-दुःखा-अदुःखाऽसुखाश्चेति वेदना वेदनास्कन्धो वोच्यते । वेदना च पूर्वतनप्रारब्धकर्मजन्या दृष्टविपाकाद् जायमानोऽनुभवः । वेदनास्कन्धस्योदाहरणं स्वयं भगवता बुद्धेनैकदा भिक्षामटाट्यमानेन कण्टकेन विद्धे चरणे प्रोक्तम् -
इत एकनवते कल्पे शक्त्या मे पुरुषो हतः ।
तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः ॥ बुद्धत्वप्राप्त्यनन्तरं भगवता स्वयं एकोननवतिकल्पे कृतस्य परपुरुषघातकर्मजन्यादृष्टपाकवशादिदानी विद्धपादोऽहमिति वदता वेदनास्कन्धस्योदाहरणं प्रस्तुतम् । १.३ संज्ञास्कन्धः
संज्ञानिमित्तोद्ग्रहणात्मकप्रत्ययः संज्ञास्कन्धः । अभिधालक्षणशक्त्या जायमानं ज्ञानं संज्ञास्कन्धः । एवं च तत्र नामजात्यादियोजनात्मकं सविषयकज्ञानं संज्ञास्कन्धः ।
१९