________________
दर्शनम्
ईशस्य न्यायोपासना
१. पुरोवाक्
शास्त्रकारैः पदार्थनिरूपणावसरे पदार्थज्ञानस्य प्रयोजनमपि प्रतिपादितम् । तत् पदार्थचिन्तनमेव तत्र कालक्रमेण यथादेशं रुचीनां वैचित्र्यात् विविधदर्शनरूपेणाऽधिकारिभेदेन प्रसिद्धम् । तस्य दर्शनस्य विचारविकासोपक्रमे पश्चात् आस्तिकनास्तिकभेदेन द्विधा विभागः । तत्र वेदेश्वरयोरस्तित्वप्रतिपादकदर्शनमास्तिकदर्शनम् । एवं च वेदेश्वरयोर्नास्तित्वप्रतिपादकं दर्शनं नास्तिकदर्शनमिति फलितम् । तत्र आस्तिकदर्शनानि तावत् साङ्ख्य-योग- न्याय-वैशेषिक- पूर्वमीमांसोत्तरमीमांसाभेदात् षड्विधानि सन्ति । नास्तिकदर्शनानि चार्वाक - जैन-बौद्धभेदात् त्रिविधानि सन्ति । उक्तं च सायणमाधवाचार्यै: "नास्तिका: वेदबाह्यास्तान् बौद्धलोकायतार्हतान्" इति (सर्वदर्शनसङ्ग्रहः, पृष्ठ ४६ ) । अत्र यद्यपि षड्विधानि दर्शनानि पूर्वोक्तानि एव इत्यत्र विदुषां नैकमतमस्ति । तत्र षड्दर्शनसमुच्च्यात्मकग्रन्थे दर्शनानि षडेवाऽत्र मूलभेदव्यपेक्षया इत्यादिरूपेण षड् भागेषु विभज्य षण्णां दर्शनानां नामान्याहुः
दर्शनानि षडेवाऽत्र मूलभेदव्यपेक्षया ।
देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥
• डॉ. रामप्रसाद पौडेलः
बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा ।
जैमनीयं च नामानि दर्शनानाममून्यहो ॥ ( षड्दर्शनसमुच्चयः, १-२) अनया रीत्या षड्विधदर्शनानां पृथक् परिगणना कृता तैः । तत्र षड्विधेषु दर्शनेषु व्यासेन समासेन वा अस्तित्वेन नास्तित्वेन वा प्रतिपाद्यः सर्वदर्शनवाच्य ईश्वरपदार्थः । तत्र सामान्यतः पदार्थो द्विविधः - लौकिकः - लोकानुभवगम्यः अलौकिकः - शास्त्रैकगम्यः यथा न्यायदर्शनप्रतिपाद्यद्रव्यादिसप्तपदार्थेषु द्रव्यगुणकर्मसामान्यानि लोकानुभवगम्यानि कानिचिद् । विशेषपदार्थश्च शास्त्रैकगम्यः । यथा च -
क्षित्यप्तेजोमरुद्व्योमकालदिक् देहिनो मन: ( न्यायसिद्धान्तमुक्तावली, पृ. ३)
इत्यत्र क्षित्यप्तेजोवायवा लोकानुभवगम्याः । आकाशकालदिगात्मानश्च शास्त्रैकगम्याः । एवं च
२३