________________
परमेश्वरोऽपि शास्त्रैकगम्यः । तस्य लक्षणं किम् ? कतिविधः? कीदृशः ? इतिविषये सर्वेषु तन्त्रेषु, दर्शनेषु, पुराणेषु, शास्त्रेषु च बहुत्र बहुशः प्रतिपादितामीश्वरविषयिणीं विप्रतिपत्तिं श्रुत्वा दृष्ट्वा च संकल्पविकल्पशालिप्रेक्षावतां धीमतां मनसि संशयो जायते । अतस्तादृशसंशयनिवारणाय न्यायशास्त्रप्रतिपादितेश्वरविषयिणी चर्चाऽत्र कियते । यतो हीयं च परिचर्चा स्वर्गापवर्गयोरमपि उच्यते । उक्तं च श्रीमदुदयनाचार्यैः -
स्वर्गापवर्गयोभरमामनन्ति मनीषिणः ।
यदुपास्तिमसावत्र परमात्मा निरूप्यते ॥ (न्यायकुसुमाञ्जलिः, १/३) अत्र यद्यपि पूर्वपक्षिणो विवदन्ते ईश्वरविषये । लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । मानाधीना मेयसिद्धिः मानसिद्धिश्च लक्षणात् इति सर्वतन्त्रसिद्धान्तसिद्धत्वात् । नासत ईश्वरस्य लक्षणं प्रमाणं च संभवति । यथा असतो वन्ध्यापुत्रस्य न हि केनाऽपि लक्षणेन प्रमाणेन वा सिद्धिः, तद्वत् काभ्यामपि लक्षणप्रमाणाभ्यामीश्वरः साधयितुं न शक्यते । एवं च न्यायाभिमतप्रमाणान्यपि न्यायाभिमतेश्वरं साधयितुं समर्थानि न हि संभवन्ति । तथा हि प्रमाणानि चत्वारि सन्ति । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि (न्यायसूत्रम् ३) । न हि तावत् प्रत्यक्षं प्रमाणम् । प्रत्यक्षप्रमाणं हि द्विविधं - बाह्याभ्यान्तरभेदात् । न हि बाह्यप्रत्यक्षं तत्र प्रमाणम्, बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे उद्भूतरूपस्य कारणत्वात् ईश्वरे च रूपत्वावच्छिन्नाभावात् । नाऽपि मानसप्रत्यक्षम्, स्वात्मभिन्नद्रव्यत्वात् । यतो हि परात्मनः परेण मनसा प्रत्यक्षवारणाय स्वात्मप्रत्यक्षं प्रति परात्मव्यावृत्तविजातीयमनःसंयोगत्वेनैव हेतुत्वस्य वक्तव्यतया, ईश्वरे च तस्याऽभावात् । नाऽप्यनुमानप्रमाणम्, ईश्वरस्य सदाऽप्रत्यक्षतया तस्य केनचिल्लिङ्गेन सहाऽदर्शनेन व्याप्तिग्रहासम्भवात् । न वोपमानं प्रमाणम्, ईश्वरतुल्यस्य कस्यचिदपि पदार्थस्याऽभावेन सादृश्यज्ञानासंभवात् । नाऽपि शब्दः प्रमाणम्, श्रुतीनामीश्वरोच्चरितत्वेन प्रामाण्यस्य वक्तव्यतयेदानीमीश्वर एव सन्देहेनेश्वरास्तित्वप्रतिपादकश्रुतीनामपि सन्दिग्धत्वात्; प्रमाणचतुष्टयं प्रत्येकं मिलित्वा वेश्वरं साधयितुमसमर्थं भवति । एवं च प्रमाणचतुष्टयेनाऽसिद्धभूतस्येश्वरस्य प्रणम्यत्वाभावात् सर्वत्र ग्रन्थादौ इष्टदेवनमस्कारात्मकमङ्गलकरणमप्ययुक्तमिति बहुधा वक्तारमीश्वरानङ्गीकर्तृपूर्वपक्षिणं प्रति धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु यं कमपि पुरुषार्थमर्थयमानानां पदार्थनिरूपणे प्रवृत्तानां साङ्ख्यवेदान्तादिसकलदर्शनसिद्धान्तानुयायिनां मते ईश्वरस्य लक्षणं प्रमाणं च प्रदर्शनपुरःसरमनुमानादिप्रमाणेन न्यायाभिमतेश्वरसिद्धिप्रक्रियां च निरूपयन्नाह कुसुमाञ्जलिकारः "इह यद्यपीत्यादिना। तथा च ईश्वरस्य लक्षणनिर्वचनप्रसङ्गे वेदान्तिनः प्राहुः शुद्धबुद्धस्वभाव ईश्वरः । आदिविद्वान् सिद्ध इति कापिलाः। क्लेशकर्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय सम्प्रदायप्रद्योतकोऽनुग्राहकश्चेति पातञ्जलाः । लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपताः। शिव इति शैवाः । पुरुषोत्तम इति वैष्णवाः । पितामह इति पौराणिकाः। यज्ञपुरुष इति याज्ञिकाः । सर्वज्ञ इति सौगताः । निरावरण इति दिगम्बराः । उपास्यत्वेन देशित इति मीमांसकाः । लोकव्यवहारसिद्ध इति चार्वाकः । यावदुक्तोपपन्न इति नैयायिकाः ।
२४