SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ किं बहुना ? यं कारवोऽपि विश्वकर्मेत्युपासते । तस्मिन्नेवं जातिगोत्रप्रवरचरणकुलधर्मादिवदासंसारं सुप्रसिद्धाभावे भगवति सन्देह एव कुत: ?" (कुसुमाञ्जलि, पृ. ५) सन्देहाभावे न हि तत्र न्यायः प्रवर्तते । 'नाऽनुपलब्धे न निर्णीतेऽर्थे न्यायः प्रवर्त्तते किन्तहिं ? संशयितेऽर्थे' इति भाष्यवचनात् सन्देहे सत्येव न्याय: प्रवर्तते । परमात्मनः सर्ववादिसिद्धतया साध्यवत्तानिश्चयेन संशयस्य निर्वर्त्यत्वात् इत्यपि वक्तुं न युज्यते । यतो हि शास्त्रान्तरेण सिद्धेऽपि परमात्मनि सत्यामनुमित्सायां अनुमानादिप्रमाणेनेशस्य मननावश्यकतयाऽनुमानप्रमाणादिसमुपस्थापनेन मननरूपोपासनैव क्रियते । तथा चोक्तं श्रीमदुदयनचार्यै: - न्यायचर्चेयमीशस्य मननव्यपदेशभाक् । उपासनैव क्रियते श्रवणानन्तरागता । ( न्यायकुसुमाञ्जलि १/३) एवं च 'प्रत्यक्षेण परिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः' (जागदीशी पक्षता, पृष्ठ. ५६ ) इति वाचस्पतिवचनस्याऽपि सङ्गतिः सङ्गच्छते । अत एवेश्वरविषयकानुमानप्रमाणान्युच्यन्ते पञ्चमस्तबके कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ ( न्यायकुसुमाञ्जलि: ५ / १ ) एभिर्नवभिर्हेतुभिर्विश्वविदव्ययः साध्य इत्यन्वयः । २. ईश्वरसाधकहेतूनां विचारः २.१ कार्यहेतुकानुमानविचार: अत्र कारिकायां कार्यपदं हेतुपरं तस्य च तादात्म्यसंबन्धेन विवादात् धर्मपरतया व्याचष्टे । तथा च क्षितिः सकर्तृका कार्यत्वाद् घटवदित्यनुमानेन क्षितिः सकर्तृकत्ववती इत्यनुमितिर्जायते । नन्वत्राऽनुमितिर्द्विधा प्रसिद्धा अवच्छेकावच्छेदेनाऽनुमितिः सामानाधिकरण्यरूपानुमितिश्च । तथा हि यत्र उद्देश्यतावच्छेदकव्यापकत्वं विधेये विधेयप्रतियोगिकसंसर्गे वा भासते सा ह्यनुमितिरवच्छेदकावच्छिन्नरूपा । यत्र च पक्षतावच्छेदकसामानाधिकरण्येनाऽनुमितिर्जायते साऽनुमितिः सामानाधिकरण्यरूपा । यथा पर्वतो वह्निमान् धूमादित्यत्र यदा उद्देश्यतावच्छेदकपर्वतत्वव्यापकत्वं वह्नौ वह्निप्रतियोगिकसंयोगसंसर्गे च भासते तदा अवच्छेदकावच्छेदेनानुमितिरुच्यते । यदा तु पक्षतावच्छेदकी भूतपर्वतत्वसामानाधिकरण्येन पर्वतैकदेशे साध्यानुमितिर्जायते तदा सामानाधिकरण्यरूपानुमिति: । नन्वत्र कीदृशाऽनुमितिर्विवक्षिता ? यदि च क्षितित्वसामानाधिकरण्येन सकर्तृकत्वं साध्यं तदा घटादौ साध्यस्य सिद्धत्वेऽंशतः सिद्धसाधनम् । तत्र यदि पूर्वोक्तदोषनिवारणाय जन्यक्षितित्वावच्छेदेन सकर्तृकत्वं साध्यते तदा परमतेऽजन्यक्षितेरप्रसिद्धत्वात् जन्यपदव्यावृत्त्यसिद्धिः । जन्यत्वस्यैव पक्षतावच्छेदकत्वसंभवे पक्षतावच्छेदककोटौ क्षितित्वनिवेशस्य व्यर्थत्वाच्च । ननु तर्हि जन्यत्वमेव पक्षतावच्छेदकमस्तु तथा सति पक्षतावच्छेदकहेत्वोरैक्यप्रसङ्ग इत्यपि न, स्वरूपसंबन्धविशेषरूपकार्यत्वस्यैव पक्षतावच्छेदकत्वात्, प्रागभावप्रतियोगित्वरूपकार्यत्वस्य हेतुत्वेन तयोर्भेदात् । अत्र साध्यं सकर्तृकत्वं, तच्चोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वम् । यथा घटस्योपादानं (समवायिकारणं) कपालद्वयं तद्विषयकप्रत्यक्षज्ञान- चिकीर्षाकृत्येतत्त्रयं, तद्वान् कुलालः कर्ता भवति तथा क्षितेरुपादानं समवायिकारणं २५
SR No.521038
Book TitleNandanvan Kalpataru 2017 06 SrNo 38
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2017
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy